________________
काश्यपशिल्प एकोनषष्टितमः पटलः । वैश्यानां च त्रिकोणं च शूलवृत्तायतं तथा । शूद्रवृद्धिकरं त्रीणि सूत्रं गृह्य तु लक्षणम् ॥ ४८ ॥ लक्षणोद्धरणोत्थांशं रुद्रभागविभाजिते । मुकुलोदयमेकांशं तद्वयासं चापि तत्समम् ॥ ४९ ॥ तन्मूलानां तु दीर्घत्वं नवभागमुदाहृतम् । तन्नालमेकसूत्रं स्यात्सूत्राद्वित्रियुगं तु वा ॥ ५० ॥ सूत्रत(त्र)ययुतं चोक्तं सूत्रान्तरयवत्रयम् ।। यवद्वयान्तरं वाऽथ नालातरं द्विजोत्तम ॥ ५१ ॥ नालमूलेन तस्याग्रे सीमासूत्रे तथा लिखेत् । तन्नालं चैकसूत्रं स्याल्लिङ्गमध्ये विशेषतः ॥ ५२ ॥ सूत्रोक्तव्यासखातं च नालायामं च कल्पयेत् । नालाघस्तात्तु व्योमांशं त्यजेद्विष्णवशकोपार ।। ५३ ।। मणिरेखा ततः कार्या मुकुलस्फुङ्ग (फुल्ल)नाकृति । रेखात्रय तथा विम पद्ममूलं समं तु वा ।। ५४ ॥ पद्मतारत्रयैकांशं वेदांशेऽग्न्यंश एव वा । पञ्चांश वा युगांशं वा पानालार्धमेव वा ॥ ५५ ॥ मुकुलमूलेऽन्तरं ह्येवं नालमूलेऽतरं शृणु । नालायामसमं पश्चावित्रिपादयुगांशके ।। ५६ ॥ त्रिभागं पञ्चभागं तु वेध(द)भागमथापि वा । नालमूलसमत्वे वा मणिरेखाद्वयोत्तरम् ॥ ५७ ॥ मूलादग्रं क्रमाक्षीणं मणिरेरवान्तरं भवेत् । तन्तुमूले समे तिर्यग्गत्वा पृष्ठे तु संधयेत् ।। ५८ ।। मणिरेखाव्यासखातं चालिङ्गस्यात्रि लिङ्गवत् । मणिरेखालम्बि नालं दीर्घासं सममेव वा ॥ ५९ ।। तस्मादामूलपर्यन्तं वसुभागविभाजिते । मणि(णे)रालम्बनं विप्र नवधा परिकीर्तितम् ॥ ६० ॥ सर्वेषु लक्षणोद्धारे श्रीहिस्यान्मणिरेखिका । प्रथमं लक्षणं प्रोक्तं द्वितीयं लक्षणं शृणु ।। ६१ ॥