________________
१९८
काश्यपशिल्प एकोनषष्टितमः पटलः ।
सितयज्ञोपवीतश्च शिवद्विजकुलोद्भवः । स्थपतिश्च शुचिर्भूत्वा यज्ञसूत्रोत्तरान्वितः ॥ ३३ ॥ प्राग्वदर्शि समभ्यर्च्य स्विष्टपूर्णाहुतिं यजेत् । प्रतिसरं बन्धयेन्मात्रं लिङ्गपीठे द्विजोत्तम ॥ ३४ ॥ स्वर्णरजतकार्पाससूत्रेर्वा हृदयेन तु । प्रभाते सुमुहूर्ते तु लक्षणोद्धारमाचरेत् ॥ ३५ ॥ पायसं घृतसंयुक्तं शिरःस्थाने बलि हरेत् । रत्नशान्तिं परित्यज्य गन्धाद्यैरर्चयेद्धृतम् ।। ३६ । रत्नेन धातुना लिङ्गमध्ये सूत्रं तु पातयेत् । मुखभागस्य मध्ये तु नालं कुर्यात्सलक्षणम् ॥ ३७ ॥ लिङ्गमानेन मतिमान् स्तूपिविस्तारमाचरेद् । रुद्रभागोदर्यं गृह्य शिरसो वर्तनान्वितम् ॥ ३८ ॥ सवेदर्विंशति[र्हस्तं]क्रुत्वैकांशं तु विस्तृतम् | अगुलं वसुधा भज्य एकांशं यवमुच्यते ॥ ३९ ॥ उत्तमोत्तमलिङ्गानां सूत्रं पञ्चयवं ततः । शेषाणामपि लिङ्गानां यवार्ध प्रतिहासयेत् ॥ ४० ॥ अधमाधमलिङ्ग तु सूत्रतारं यवं भवेत् । सूत्रविस्तारमेवं स्यात्ख्या (खा )तं चैव तु तत्समम् ॥ ४१ ॥ लक्षणं शिरसि व्याधिर्ललाटे मरणं भवेत् । नेत्रे कृते त्वपस्मारमास्ये ध्यात्वा विनाशनम् ॥ ४२ ॥ चिबुके बन्धुनाशः स्यात्कण्ठे स्कन्धविनाशनम् । स्तनदेशे सुतं हन्ति तस्मादेतानि वर्जयेत् ॥ ४३ ॥ शिरसा सह रुद्रांशं गुणांशं विभजेत्समम् । एकांशं मूर्धता[वर्ज्यस्त]नादूर्ध्वे तदंशके ।। ४४ ।। तदसतशयोर्विभ लक्षणोद्धारमाचरेत् । पद्मं वा मुकुलाकारं लिङ्गाकारं यथोचितम् ॥ ४५ ॥ द्विजानामतिवृद्ध्यर्थं नृपाणां च जयावहम् । खड्गप्रत्यश्चिकाकारं कुंजराक्षमित्राकृति ॥ ४६ ॥ शङ्खाभश्च चतुर्भेदं नृपाणामपि दृद्धये । कराञ्जलिसमाकारं गोकर्णाकृति वा भवेत् ॥ ४७ ॥