________________
काश्यपशिल्प एकोनषष्टितमः पटलः ।
सर्वेषां वन्धनं चाष्टबन्धमित्यभिधीयते । विष्णुभागोर्ध्वसीमं च पिण्डिको समुन्नयेत् ॥ १८ ॥ नतोन्नत न कर्तव्यं कृतं चेत्कर्तृनाशनम् । लिङ्गस्य मुखनिर्माणं लक्षणोद्धारमुच्यते ।। १९ ॥ प्रासादस्याग्रतो वाऽपि चांशके दक्षिणेऽपि वा । हस्तमानं समुत्सेधं दर्पणोदरसंनिभम् ॥ २० ॥ गोमयालेपनं कृत्वा पिण्डी चूर्णैरलंकृताम् | नानाधूपेश्व दीपेश्व नानापुष्पैरलंकृताम् ॥ २१ ॥ शालिभिः स्थण्डिलं कुर्याद्वेदिकायां विशेषतः । तण्डुलैथ तिलैर्दभैर्लाजैः पुष्पैरलंकृतैः ॥ २२ ॥ अधमत्रयलिङ्गानामेवं मण्डपमाचरेत् । शेषाणां लिङ्गदीर्घ स्याद्यथावेदिक विस्तृतम् ॥ २३ ॥ तेनैव त्रिगुणव्यासं मण्डपस्य विशालकम् । अन्यत्सर्वमलंकारं प्रागिचैव समाचरेत् || २४ ॥ विश्वयते ( स्थपति) लिंङ प्राक्छिरयोर्ध्ववक्त्रकम् । परिवेष्टय घटानष्टौ सकूचन्सावधानवान् ॥ २५ ॥ ससूत्रान्नववस्त्राढ्यान् गन्धतोयेन पूरयेत् । सावधानान्सभो (शो) भाद्या (ढ्यान्) लोकपालादिदैवतान् ॥ २६ ॥ गन्धेः पुष्पैश्च धूपाद्यैरर्चयेत्स्वस्वनामतः । लिङ्गमूलस्य वामे तु पिण्डिकाश्म निधापयेत् ॥ २७ ॥ रक्तवस्त्रादिनाऽऽवेष्ट्य लिङ्गपीठे समर्चयेत् । वेदिकायां सत्वयैन्द्रे कुण्डं वा स्थण्डिलं कुरु ।। २८ ।। अग्न्याधानादिकं सर्वमभिकार्योक्तमाचरेत् । ब्रह्मवृक्षसमिद्भिश्र होमं कृत्वा विधानतः ।। २९॥ आपोहिष्ठादिमन्त्रेण इदं विष्णु मन्त्रतः ।
ब्रह्म जज्ञानमन्त्रेण आज्य [त]न्त्रं समाचरेत् ॥ ३० ॥ चरुहोममघोरेण प्रत्यगष्टादशाहुतीः । तथा जागरणं रात्रौ प्रभाते सुमुहूर्तके ॥ ३१ ॥ देशिकस्तु शुचिर्भूत्वा सकलीकृतविग्रहः । सितदस्त्रोत्तरीयाढ्यः सितमाल्यानुलेपनः ॥ ३२ ॥
१९७