________________
काश्यपशिल्प एकोनषष्टितमः पटलः । लिङ्ग व्यासट्याधिक्यं व्यासं तद्वसुभाजिते । कृ(ए)कांशमवटे निम्नं लिङ्ग-मूलवदाकृति ॥ ३ ॥ नवरत्नप्रमाणेन नवकोष्ठं प्रकल्पयेत् । अन्यतः समतां कुर्यादाधाराख्यशिलासहः॥ ४॥ तदस्मात्पीठसीमान्तं नन्द्यावर्तशिलोदयम् । लिङ्गपीठसमानं वा एकद्वित्र्यगुलाधिकम् ॥ ५॥ नान्यवृत्तशिलाव्यासं नागरेषु विधीयते । पीठव्यासान्यके वाऽथ द्राविडाक्षाग्निकायिकम् ॥ ६॥ लिङ्गव्यासेन पादांशे पीठादेकैकवर्धनात् । नन्द्यावर्तशिलाव्यासं नवधा वेसरोदितम् ॥ ७॥ लिङ्गस्योपरितः कल्प्यं चत्वारश्च(त्वरं चतुरश्रकम् । चतुरश्रोच्चतायाम तेषां मानमुदाहृतम् ॥ ८॥ उत्तराग्रं तु प्रारभागे प्रागग्रं दक्षिणे न्यसेत् । पश्चिमे चोत्तराग्रं चेत् प्रागग्रं चोत्तरे न्यसेत् ॥ ९॥ शांकरे प्रथमस्याग्रमनलाग्रे द्वितीयकम् । तृतीयं मरुतो वायुमूलं च चतुरथेकम् ॥ १० ॥ नन्द्यावर्तशिलास्त्वेवं योज्यं कल्पदलोदके । तर्वेऽष्टबन्धनं कुर्यात्स्थापयेत्पिण्डिकां बुधः ॥ ११ ॥ सुधया वज्रबन्धं वाऽऽलिध्य पीठं प्रयोजयेत् । एकांशं चोत्तमं पीठं द्वाभ्यां वै मध्यविष्टरम् ।। १२ ।। त्रिचतुष्पञ्चभिर्वाऽथ कन्यसं पीठमुच्यते । पीठानां तु तदूर्वे तु मश्म(ध्यै)केन समाचरेत् ॥ १३ ॥ बहुवस्तुदलाधस्तात्पीठसंधैर्गलैर्गुरुः । गलाधस्ताद्वषो द्वयश्री तत्पूर्वे वाऽपरे न्यसेत् ॥ १४ ॥ त्रयश्चेदाश्रयं त्वेकं वामेऽवामे परे द्वयम् । चत्वारं चेद्रोणयुगं चतुरथं प्रकल्पयेत् ॥ १५ ॥ पञ्चषट् चैव कर्तव्यं पिण्डिकालक्षणान्वितम् । सुधयाऽष्टबन्धनाद्वा निश्छिद्रं सुदृढं कुरु ॥ १६ ॥ इष्टकाभिः शिलाभिर्वा दृढं स्यात्सुधयाऽन्वितम् । लोहजं राजतं चैव यथावबढता भवेत् ॥ १७॥