________________
१९५
काश्यपशिल्प एकोनषष्टितमः पटलः । एकांश घृतवारि स्याच्छेषं वेदियुगाश्रक(य)म् । वेदिकापीठमाख्यातं तदेवाक्षांशपट्टिका ॥ ४० ॥ कर्तव्यं तु त्रिधैवाह्नि वेदिकापीठमुच्यते । पचं वा भद्रपीठं वा वृत्तं तु परिमण्डलम् ॥ ४१ ॥ अधिष्ठानं तु यावद्वा पीठाङ्गं परिकल्पयेत् । उपपीठाङ्गवद्धन्धात्तत्तन्नाम्ना प्रकीर्तितम् ।। ४२ ॥ जयदं चतुरश्रान्तं योन्याकारं प्रजाकरम् । शान्तिः स्यादनुराकारे गुणाश्रं रिपुनाशनम् ॥ ४३ ॥ वर्धमानं तु वृत्तं स्यात्पश्चाथ पुष्टितुष्टिदम् । षट्कोणं रोगनाशं स्यादे(दे)वदे(मे)व क्रमाद्विदुः ॥ ४४ ॥ एष्वाकारेषु पीठाग्रात्मागुक्तविधिना कुरु । द्रव्ये तुष्टेऽष्टपीठे तु जीर्णे धारे द्विजोत्तम ॥ ४५ ॥ पूर्वाऽऽकृतियेथा कार्य तथा कुर्यात्पनः पुनः। पश्चादन्याकृतातीतकर्तव्यं कर्तृनाशनम् ॥ ४६॥ तस्मात्सर्वप्रयत्नेन पूर्वाकारं प्रकल्पयेत् । सापेक्षं यत्तु तत्तारान्सपादं सार्थ एव वा ॥ ४७ ।। आजयं मुखभद्रं वा भद्रं चोपसभद्रवत् । लिङ्गानां सायतं पीठं न कुर्यात्तु कदाचन ॥४८॥ समारं समवृत्तं च सायतं वा तदन्यकम् । सर्वच सक्रमोपेतं कर्तव्यं संपदा पदम् ॥ ४९ ॥
पिण्डिकालक्षणं प्रोक्तं पादशैलोदयं शृणु ॥ ५० ॥ इति काश्यपशिल्पे पिण्डिकालक्षणं नामाष्टपञ्चाशत्तमः पटलः ।
॥ अथैकोनषष्टितमः पटलः ।।
अथ वक्ष्ये विशेषेण पादशैलादिलक्षणम् । लिङ्गतारत्रयं व्यासं तत्र पादसमोन्नतम् ॥ १ ॥ श्रेष्ठमध्यकनिष्ठोज़ तयोर्मध्येऽष्टभाजिते । तुङ्गं तु नवधा प्रोक्तं पादांशं (वे)सरोदितम् ॥ २॥