________________
काश्यपशिल्पेऽष्टपञ्चाशत्तमः पटलः । लिङ्गन्देहाङ्गुलो वा दलाग्राणां समुच्छ्रयम् । पीठतारत्रिभागैकं गोमुखं दीर्घमुच्यते ॥ २६ ॥ तदीर्घसदृशं ख्यातं मूलव्यासमुदाहृतम् । मूलतारत्रिभागैकं तस्याग्रे विस्तृतं भवेत् ॥ २७ ॥ मलादग्रं क्रमाक्षीणं तद्घनं व्याससदृशम् । त्रिपादं वाऽर्धपादोनं वृत्तिभागांश एव वा ॥ २८ ॥ व्यासत्रिभागभागं तु शिलामार्गविशालकम् । पट्टिकोर्श्वसमं निम्न तस्माद्धीनं तु कन्यसम् ॥ २९ ॥ उपानाद्यनवेशं च नीत्रं सौन्दर्यमाचरेत् । अधिष्ठानं भवेद्वेशनी वा परिकल्पयेत् ॥ ३० ॥ पद्मपीठं समाख्यातं भद्रपीठमथोच्यते । कृत्वा तु पोडशोत्सेधं भागेनोपानमुच्यते ॥ ३१ ॥ जगत्युच्चं तु वेदांशं गुणांशं कुरुतोश्र(च्छ्र)यम् । शिवांशं पट्टिकामानं कण्ठमानं गुणांशकम् ॥ ३२ ॥ तदूर्ध्व पट्टमेकांशं द्विभागं पट्टिका भवेत् ।। शश्यंशं घृतवारि स्याद्भद्रपीठमिदं परम् ॥ ३३ ॥ पटोचं तु कलांशे तु द्विभागं पादुकोदयम् । गुणांशं जगतीमानं कुमुदोच्चं तु तत्समम् ॥ ३४ ॥ व्योमांशं पट्टमानं तु कण्ठमानं द्विभागया(तः) । तस्यो– कम्पमेकांशं गुणांशं पट्टिका भवेत् ॥ ३५ ॥ एकांशं घृतवारि स्याद्वेदीभद्रं तथोच्यते । भद्रमेवं समाख्यातं वेदपीठमथोपरि ।। ३६ ॥ त्रयोदशांशं पीठोचं द्विभागं पादुकोदयम् । तदूर्ध्व पद्मकं तुल्यं कम्पमंशेन कारयेत् ॥ ३७॥ द्विभागं कम्पमानं तु अर्बकम्पं शिवांशकम् । तवपनं पक्षांशं पट्टकं चैव तत्समम् ।। ३८ ॥ घृतवार्युदयं व्योमभागेन परिकल्पयेत् । अयोदये तु वरवंशे उपानोच्चं शिवांशकग ।। ३९ ।।