________________
काश्यपशिल्पेऽष्टपञ्चाशत्तमः पटलः ।
तत्कर्णद्विगुणं वाऽथ सार्वद्विगुणमेव वा । त्रिगुणं च विशालं तु पीठानां तु विशेषतः ॥ १२ ॥ गर्भगेहं त्रिभागकं चतुर्भागैकमेव वा । पीठव्यासं समाख्यातं विष्णुभागसमोन्नतम् ॥ १३ ॥ सामान्यं नागरादीनां लिङ्गानां पीठिकासमे | उपानवाह्यविस्तारं सर्वेषां तु विधीयते ॥ १४ ॥ तदष्ट दशांशहीनं वाऽग्रविशालकम् । विष्णुभागसमोत्तुङ्गं सपादं सार्धमेव वा ॥ १५ ॥ सामान्यपीटिकानां तु नागराद्व्यासमुन्नतम् | लिङ्गानां सकलानां तु सामान्यं पीठलक्षणम् ॥ १६ ॥ कलोदये नवांशे तु व्योमांशं कन्यसोदयम् । गुणां श्रेष्ठमानं तु तयोर्मध्येऽष्टभाजिते ॥ १७ ॥ नवधा पीठतु तु तस्य विस्तारमुच्यते । पीठतुङ्गन्समं व्यासमधमं पीठमुच्यते ॥ १८ ॥ द्विगुणं चोत्तमं व्यासात्तयोर्मध्येऽष्टभाजिते । नवधा विस्तृतं ख्यातं सकलानां विशेषतः ॥ १९ ॥ पिण्डिका गोमुखोपेता लिङ्गानां तु विधीयते । गोमुखाकृति पीठं स्यात्सकलानां विशेषतः ॥ २० ॥ समाश्रं समवृत्तं वा लिङ्गानां तु विधीयते । सायताग्राय ( प ) वृत्तं वा मी ( प्र ) तिमानं समं तु वा ॥ २१ ॥ पद्मपीठं भद्रपीठं वेदिकोपरि मण्डलम् । पीठं चतुर्विधं ख्यातमलंकारं द्विजोत्तम ।। २२ ॥ कलांशं विभजेत्तुङ्गमुपानीचं द्विभागया (तः) । भूतांशोच्चमथो पद्मं कण्टं पादुकसदृशम् || २३ ॥ ऊर्ध्वपद्मं तु वेदांशं द्विभागं पट्टिकोदयम् । शिवांशं प्रीतवायुश्च ( प्रतिभागं च ) षोडशदल संयुतम् ॥ २४ ॥ क्षुद्रं दलं तयोर्मध्ये अष्टौ वाऽथ महादलम् |
अर्धाङ्गुलं दलाग्रोचं माना गुलसमावृतम् ।। २५ ॥
१९३