________________
काश्यपशिल्पेऽष्टपञ्चाशसमः पटलः । शेष प्रागुदिते देशे हासं कुर्यादतीन्द्रियम् ।
सप्ततालं समाख्यातं शेष प्रागपरोदितम् ॥ ७ ॥ इति काश्यपशिल्पे सप्ततालं नाम सप्तपश्चाशत्तमः पटलः ।
॥ अथाष्टपञ्चाशत्तमः पटलः ॥
अथातो नागरादीनां लिङ्गानां प(पी)ठलक्षणम् । आदौ तु वक्ष्यते विप्र सकलान्तं ततो विदुः ॥ १॥ शैलजे शिलया पीठं सुधयेष्टकयाऽपि वा। दारुजे दारुजना(जं वाऽ)थ इति(ट)कामयमेव वा ॥२॥ रत्नलोहजलिङ्गानां सयोनिर्लोहजं तु वा। लिङ्गोदयसमं पीठं विस्तारेणोत्तमोत्तमम् ॥ ३॥ पूजांशोच्चसमं पीठं तारं कन्यसमुच्यते । तयोर्मध्येऽष्टभागं तु उत्तमान(दि) यत्रयम् ॥ ४॥ पीठव्यासं त्रिधा भज्य द्विभार्ग चोरुमो(जो)मतम् । व्यासार्धमधमोत्सेधं तयोर्मध्येऽष्टभाजिते ॥ ५ ॥ नवधा पीठतुङ्गं च उत्तमादि अयत्रयम् ।। क्रमेण कथितं विप्र नागरस्त्वेवमुच्यते ॥६॥ लिङ्गस्योच्चसमं व्यासं श्रेष्ठमध्यकनिष्ठकम् । तयोर्मध्येऽष्टभागे तु नवधा पीठविस्तृतम् ॥७॥ नवधा विस्तृतं ख्यातं ब्रह्मविष्ण्वंशयोरपि । उदयं वसुधा भज्य विभागं वा यसा(थां)शकम् ॥ ८॥ एकांशं वा विशेषेण स्थलांशे तु निवेशेयत् । शेषं पीठोदयं ख्यातमेवं द्राविडमुच्यते ॥९॥ पूजांशश्च परीणाहसमं श्रेष्ठं विशालकम् । परीणाहे कलाशे तु भान्वंशमधमं त्विति ॥ १० ॥ तयोर्मध्येऽष्टभागे तु नवधा पीठविस्तृतम् । अथवा लिङ्गविष्कम्भं चतुरस्रकृते सति ॥ ११ ॥