________________
काश्यपशिल्पे सप्तपञ्चाशत्तमः पटलः ।
शिवांश त्वक्षिसूत्रान्तं पुटान्तं चैव तत्समम् । पुटार्ध त्वन्तके शेष सार्धव्यंशं गलोदयम् ॥ ३ ॥ हिकादिहृदयान्तं तु रुद्रांशं द्वितयोन्नतम् । नाभ्यन्तं चैव तुल्यांशं मेढ़मूलान्तकं तथा ॥ ४ ॥ सार्धत्रिसप्तभागं तु ऊरुदीर्घमुदाहृतम् । जानुकण्ठसमं तुझं जङ्घा चोरुसमा भवेत् ॥ ५ ॥ . जानुतुल्यं तलोत्सेधं बाहुशोरुसमो यतः । प्रकोष्ठं तु कलांशं स्यात्साधै भूतागुलं तथा ॥६॥ तत्समं मध्यमाङ्गुल्यं शेषं मागपरोदितम् । अत्रानुक्तं तु यत्सर्व कन्यसं दशतालवत् ॥ ७ ॥
इति काश्यपशिल्पेऽष्टतालं नाम षट्पञ्चाशत्तमः पटलः ।
॥ अथ सप्तपञ्चाशत्तमः पटलः ॥
अथ वक्ष्ये विशेषेण सप्ततालविधि परम् । पिशाचप्रतिमोत्सेधं साष्टाशिका(शीत्यं)शकं भजेत् ॥१॥ उष्णीषमर्धभागेन केशान्तं शि(श)शिभागया(तः)। सार्धद्वयंशं तु नेत्रान्तं सार्धाग्न्यंशं पुटान्तकम् ॥ २॥ चिबुकान्तं च तत्तुल्य वेदांशं च गलोदयम् ।.. स्तनान्तं सप्तभागं तु रुद्रांशं नाभिसीमकम् ॥ ३ ॥ तथा वै योनिमूलान्तं विंशांशं चोरुदीर्घकम् । जानुमानं द्विभागेन जङ्घा चोरुसमा भवेत् ॥ ४ ॥ चरणोच्चं द्विभागेन मन्वंशं तु तलोन्नतम् । ऊरुदीर्घसमं बाहुप्रकोष्ठान्तं त्रिपञ्चकम् ॥ ५ ॥ तलायामं तु भूतांशं वेदांशं तस्य विरतरम् । . तसलायामसदृशं मध्यमाङ्गुलिदीर्घकम् ॥ ६ ॥