________________
ra
काश्यपशिल्पे षट्पञ्चाशत्तमः पटलः ।
षडंशं च यत्रोनं तु तु (त) लायामं करस्य तु । तत्समं मध्यमायामं शेषं युक्त्या समाचरेत् ॥ ८ ॥
इति काश्यपशिल्पे मध्यमनवतालकं नाम चतुःपञ्चाशत्तमः पटलः ।
|| अथ पञ्चपञ्चाशत्तमः पटलः ॥
अधर्म नवतालस्य लक्षणं वक्ष्यतेऽधुना । विद्याधरगणश्चैव असुराश्च तथैव च ॥ १ ॥ पितरः सिद्धगन्धर्वा नवतालोभतेन तु । सवेदशतभागं तु कौतुकच्चं विभाजिते || २ || उष्णीषोच्चं त्रिपादं स्याच्छेषं सार्वत्रिभागया (तः) । केशान्ताने सूत्रान्तं पादोनचतुरंशकम् ॥ ३ ॥ तस्मान्नेत्राद्विहन्वन्तमाननं स्यात्तथोदितम् । भवेदाङ्गुलं ग्रीवामानमित्यभिधीयते ॥ ४ ॥ ग्रीवापादतले जानुतुल्यं जघोरुसदृशम् । बाहु (हो) वो रुस दैर्ध्य प्रकोष्ठ षोडशाङ्गुलम् ॥ ५ ॥ तलदीर्घं तु भूतां तत्समं मध्यमाङ्गुलम् । शेषं युज्यं (क्त्या) तु कर्तव्यं सर्वमङ्ग विधीयते ॥ ६॥ इति काश्यपशिल्पेऽधमनवतालं नाम पञ्चपञ्चाशत्तमः पटलः ।
॥ अथ षट्पञ्चाशत्तमः पटलः ||
अथ वक्ष्ये विशेषेण अष्टतालं विधीयते । शतांशं मध्यबिम्वोच्चमुष्णीषं तु शिवांशकम् ॥ १ ॥ सायं तु केशान्तं केशान्तात्त्वर्धसीमकम् । पादोनदशभागं स्यात्तत्त्रिभागविभाजिते ॥ २ ॥