________________
काश्यपशिल्पे त्रिषष्टितमः पटलः ।
२११ तत्रैवापरसूत्रं तु षड्विंशतियवं भवेत् । जानुमध्याङ्गसूत्रान्तं पूर्वसूत्रं रसागुलम् ॥ ३० ॥ तत्रैवापरसूत्रं तु पादोनं पञ्चमात्रकम् । जङ्घामध्यं तु प्राक्सूत्रं वस्वड् गुलमुदाहृतम् ॥ ३१ ॥ तत्रैवापरसूत्रान्तं षड्विंशतियवं भवेत् । माक्सूत्रानालकामध्यं साध वस्वमुलं भवेत् ।। ३२ ॥ नालकापरसूत्रान्तं पादोनं पञ्चमात्रकम् । .. द्वयर्धमङ्गुष्ठयोरग्रं पूर्वसूत्रं विशेषतः ॥ ३३ ॥ तत्सूत्रपाणिपर्यन्तं सार्धमन्विष्यमिष्यते । प्राक्सूत्रकायमध्यस्थं सूत्रं साधं नवाङ्गुलम् ॥ ३४ ॥ कायमध्यस्थसूत्रं तु शिरः पृष्ठयुगान्तकम् । तत्कायमध्यसूत्रं तु ककुत्पञ्चाङ्गुलार्धकम् ॥ ३५ ॥ उरोमध्यप्रदेशे तु पृष्ठं सार्धषडङ्गुलम् । सूत्रमध्योदरे पृष्ठे सार्धवेदाङ्गुलं भवेत् ॥ ३६॥ नाभिप्रदेशपृष्ठे तु सार्थभूताङ्गुलं भवेत् । कठि(टि)नी पडशं स्यात्सार्धाष्टांचं स्वि(स्फि)कारकम् ॥ ३७॥ ऊरुमध्योत्पलं वेदो जानुपृष्ठं तथैव च । जङ्घामध्ये गुणांशं तु नलिका द्वयगुला भवेत् ॥ ३८ ॥ गुल्फो हिल्पियोर्ह) युगाङ्गुल्यं परसूत्रे बहिर्घनम् । पार्थसूत्रमधस्तं(रतात्त) समसूत्रं तु संस्थितम् ॥ ३९ ॥ पार्श्वसूत्रात्पुरो बाहुपर्यन्तं चतुरगुलम् । .. तत्सूत्रादपरे वायपर्यन्ताव(व)समातृ(त्र)कम् ॥ ४० ॥ पूर्वाकारौ तु मध्ये च कूपरं तु वलमको। तत्करे बाह्यविप्रादौ चतुरङ्गुल मिष्यते ॥ ४१ ॥ कर्तरीपरहस्ताग्रौ हिक्कासूत्रं समं भवेत् । . मध्यागुलाग्रमुभयोः स्तनचूचुकसंभवेत् ॥ ४२ ॥ अभयं दक्षिणे हस्ते वरदं वामहस्तकम् । . . माक्सूत्रादभये हस्ते मध्यं पञ्चदशाङ्गुलम् ॥ ४३ ॥