________________
काश्यपशिल्पे त्रिषष्टितमः पटलः ।
वरदं वामहस्तं तु अधोमुखं प्रकल्पयेत् । तलमूलं कटीपृष्ठे मेदाग्रं तु तत्क(तः पारे ।। ४४ ॥ मध्यागुल्यं [स]मालम्ब्य ऊरुनीनं युगागुलम् । ऊरुवक्त्रं तु वरदं पृष्ठं नाभिसमोद्धृतम् ॥ ४५ ॥ वरदं हस्ततलमध्ये पूर्वसूत्रं तलाङ्गुलम् । कर्तरीमणिबन्धं तु बाहुबाह्यमुखं भवेत् ॥ ४६ ॥ अथवा रुद्रभागं तु दशाङ्गुलमथापि वा । को(कूपरं पूर्वसूत्रान्तं नीत्रं सप्तदशाङ्गुलम् ।। ४७ ॥ जङ्घयोरेकोनविंशदं (मू )रुमूलं द्वयोचतम् । गुल्फयोरन्तरं चैव एकाङ्लमुदाहतम ॥ ४८ ॥ अरोर्मध्यान्तरङ्गुल्यं विंशाचं वा उदाहृतम् । जान्वन्तरं चतुर्मात्रं जङ्घयोः पञ्चमातृ(त्र)कम् ॥ ४९॥ तलोरुं(रू) तु रसांशं तु वेदांशं गुल्फयोर्भवेद् । पादाङ्गुष्ठद्वयोरन्तं द्वयन्तरं वसुमात्रकम् ॥ ५० ॥ आर्जवं राजसं भावं कल्पयेद्वा द्विजोत्तम । कर्तरीपरहस्तौ द्वौ टङ्क वै दक्षिणे करे ॥ ५१॥ हरिणी वामहस्ते तु टकं कृत्वा बहिर्मुखम् । हरिणीबाह्यमूलं वा द्वयन्तराननमेव च ॥ ५२ ।। जटामुकुटसंयुक्तं दक्षिणे चन्द्रशेखरम् । वामेन्दुशेखरं वाऽथ प्रवालसदृशभभम् ॥ ५३॥ त्रिनेत्रं सौम्यवदनं सर्वाभरणभूषितम् । पीताम्बरधरं देवं वस्खाग्रौ नलकान्तकौ ॥ ५४ ॥ उभयोः पार्थयोरेवमम्बरं चोरुमध्यमम् । केवलं चैवमाख्यातं वामे गौरीसमायुतम् ॥ ५५ ॥ भिन्नपीठैकपीठं वा भवेद्वा भङ्ग-संयुतम् । तद्गौरीसंयुतं चोरुभिन्नपीठैकमेव वा ॥५६॥ तदेव भङ्गसंयुक्तं देवदेव्यौ परस्परम् । देवो वरदहस्तेन देवीं वै त्वपराश्रिताम् ॥ ५७ ॥