________________
काश्यपशिल्पे चतुःषष्टितमः पटलः ।
स्थानमध्यान्तरे वामपार्श्वमालिङ्गनं कुरु । पार्श्वसूत्रात्परो वाऽथ बाहुमालिङ्गनं तु वा ॥ ५८ ॥ दो (वी) दक्षिणहस्तेन शंभोदक्षिणपार्श्वतः । कटिसूत्रोपरिष्वाथ (ष्टात्तु) पुष्पं वामकरे घृतः ॥ ५९ ॥ अथवा पार्श्वदेवेशो व्योम्नस्तु दक्षिणे करे | करोत्पलं (व) हन्त्याश्च वामहस्तं प्रलम्बयेत् ॥ ६० ॥ एवमालिङ्ग मूर्तिश्व त्रिधामान्ये (नेन) कल्पयेत् । सर्वाभरणसंयुक्तं प्रभामण्डलसंयुतम् ॥ ६१ ॥ चन्द्रशेखरमाख्यातं वृषारूढमथ शृणु ॥ ६२ ॥
इति काश्यपशिल्पे चन्द्रशेखरमूर्तिलक्षणं नाम त्रिषष्टितमः, पटलः ।
अथ चतुःषष्टितमः पटलः ।
वृषवाहन मूर्तेस्तु लक्षणं वक्ष्यतेऽधुना ।
समभङ्गं त्रिभङ्ग वा कल्पयेत्कल्पवित्तमः ॥ १ ॥ दक्षिणं स्वस्तिकं पादं वामपादं तु कुञ्चितम् । . उष्णीषान्मध्यमाद्वामे ललाटं मध्यवामके ॥ २ ॥ वामनेत्रावसाने तु वामनासापुटान्तके । दक्षिणे स्तनपीठं स्यादद्वामनाभिश्च मध्यमे || ३ ॥ arataमध्यपायो मध्यसूत्रं प्रलम्बयेत् । एवं तु समभङ्ग स्यात् नतमानं युगाङ्गुलम् ॥ ४ ॥ • मुखे पूर्ववदुद्दिष्टं दक्षिणे तु स्तने तथा । नाभेर्वामे गुणांशं तु वामोरुमध्यमे तथा ॥ ५ ॥ स्वसि (स्थि) वाङ्घ्रिस्तु गुल्कं स्यात्मध्ये सूत्रं लम्बयेत् । अतिभङ्गमिति ख्यातं नतं पञ्चाङ्गुलं भवेत् ॥ ६ ॥ वृक्ष (प) र मरतको तु न्यसे चै (च) वामको (कू ) परम् । हिकासूत्रं तथा विम कलांशं वा नवाङ्गुलम् ॥ ७ ॥
२१३