________________
! काश्यपशिल्पे चतुःषष्टितमः पटलः । वामको(कू)परं लम्ब स्यात्तस्मादास्तनसीमकम् । वृषभस्योच्चयं ख्यातं पादस्थानाहितागुलम् ॥ ८ ॥ वृषभोदयमाख्यातं वृष लक्षणवत्कुरु । Bषमूर्ध्नि तु हस्ते तु मध्याङ्गुल्यग्रसीमकम् ॥ ९ ॥ नाभिसूत्रं समं कुर्यादङ्गुलं वा नताङ्गुलम् । (अध)स्तात्तलमध्ये तु पूर्वसूत्रं यवद्वयम् ॥ १० ॥ अधोमुखं प्रकर्तव्यं तदर्धे तु प्रसारयेत् । दक्षिणे पूर्वहस्ते तु पाणि नाभेरधो बुधः ॥ ११ ॥ पक्षे षोडशमात्रं वा नतं तत्सिहकर्णवत्। . वक्त्रदण्डोत्थितं तस्मिन्कल्पयेत्तु चलाचलम् ।। १२ ॥ स्थिताघ्रि जानुरूवा॑सु हिक्कासूत्रं तु(स)मुन्नतम् । कनिष्ठाङ्गुलिपरीणाहमग्रं वत्क्रत्रयान्वितम् ॥ १३ ॥ लोहजं दारुजं वाऽथ वक्रदण्डैवमाचरेत् । अधस्तान्माणिबन्धस्तु ऊरूमूलं तदुत्तरम् ॥ १४ ॥ पञ्चषट्सप्तमात्रं वा वसुनन्दाङ्गुलं तु वा । जटामुकुटसंयुक्तं जटाभारस्तु लम्बितः ॥१४॥ जयबन्धशिरो वाऽपि कर्तुरिच्छावशानयेत् । सर्वाभरणसंयुक्तं रक्ताभं रक्तवद्धृत(क्त्रक)म् ॥ १६ ॥ वामपाचे उमादेवी दक्षिणे वा विशेषतः । स्वस्तिकं दक्षिणं पादं वामपादं तु कुश्चितम् ।। १७ ।। उत्पलं दक्षिणे हस्ते वामहस्ते प्रसारितम् । स्त्रीमानेन विधानेन उमादेवीं च कारयेत् ॥ १८ ॥ वृषवाहनमाख्यातं नृत्तमूर्तिरथोपरि ॥ १९ ॥ इत्यंशुमन्दे काश्यपशिल्पे वृषवाहनमूर्तिलक्षणं नाम
चतुःषष्टितमः पटलः।