________________
काश्यपशिल्पे पञ्चषष्टितमः पटलः ।
॥ अथ पञ्चषष्टितमः पटलः ।।
अथ वक्ष्ये विशेषेण नृत्तमूर्तेस्तु लक्षणम् । उत्साहवर्धनार्थाय उद्भूता चर्ममुण्डिका ॥ १ ॥ रुरुण्डावदनं कृत्वा स्पिक्यात्पणनितं तथा । हिंसोत्सुकासना देवी तत्सुखासनवृद्धये ॥ २ ॥ तथा नृत्तं करिष्यति सर्वलोकहिताय वै । देवानां मूर्तिनाथाय राजराष्ट्रविवर्धनात् ॥ ३॥ नृत्तमष्टादशं ह्येव तेष्वादौ नवमुच्यते । प्रकृतौ विधिना ग्राह्य बिम्बमानं द्विजोत्तम ॥४॥ उत्तम दशतालेन सर्वाङ्ग परिकल्पयेत् । भानुरुद्रदशं चैव तुङ्ग मृत्तोन(न्न)तं भवेत् ॥ ५ ॥ उष्णीषान्मध्यमात्सव्ये ललाटं मध्यदक्षिणे । नीत्वा शिवागुलं सव्ये नेत्रान्ते च पुटान्तके ॥ ६ ॥ हनोः सर्व तु हिक्कायां मध्ये नाभिं च मध्यमे । वामोर्वभ्यन्तरे लम्ब्य स्थिताछी गुल्फमध्यमे ॥ ७ ॥ प्रभामण्डलमध्ये तु पूर्वसूत्रं तु लम्बयेत् । ललाटसूत्रनीत्रं तु युगार्थामुलमन्तरम् ॥ ८ ॥ गुल्फसूत्रान्तरे चैव द्वादशांशं विधीयते । हिक्कामध्यं तु सूत्रं तु सार्थसप्तनवाङ्गुलम् ॥९॥ मुकुटोव्य(द्वये)कपक्षाग्रं सूत्रान्तरं तथैव च । अर्श्वकुक्षिं स्पृशेत्पूर्व सूत्रमेवं प्रलम्बयेत् ॥ १० ॥ तत्सूत्राडोल(त्पर)बाबा(ह)ग्र मर्धाधिककलाङ्गुलम् । तस्मादपरबाह्रग्रं युगाङ्गुलमुदाहृतम् ॥ ११ ॥ तस्मादनिकराग्रान्तं साष्टत्रिंशाङ्गुलं तु वा। चत्वारिंशतिमात्रं वा तस्मादधिगुणाङ्गुलम् ॥ १२ ॥ हिक्कासत्रं समोत्य मध्यमे मध्यमाग्रकम् । तथास्ता(दस्त)तलमध्ये वा मध्याङ्गुल्यग्रपूर्वके ॥ १३ ॥