________________
२०६
काश्यपशिल्पे पञ्चषष्टितमः पटलः ।
मध्यपर्वे यवाधिक्यं त्वनलं पात्रसंयुतम् । पात्रं विनाऽध (थ) वाऽऽधिक्यं पञ्चाङ्गुलं विशालकम् ॥ १४ ॥ तुङ्गं सप्ताङ्गुलं वाऽष्टनवमात्रमथापि वा । त्रिपञ्चसप्तजिह्वायां कल्प्यमेवमथोच्यते ॥ १५ ॥
उक्तासु मध्यजिह्य ( ह्वा)यां वन्यं दक्षिणाननं कुरु । दक्षिणे पूर्वसूत्रं तु बाह्वग्रं विशदं कुरु || १६ || तस्माडमरुके हस्ते मणिबन्धस्य बाह्यके । अष्टत्रिंशतिमात्रं वा चत्वारिंशतिरेव वा ॥ १७ ॥ चत्वारिंशतिमात्रं वा वामहस्तस्य सव्ययोः | तथ(द्ध) स्ते मणिबन्धोर्ध्वं हिक्कासूत्रं समं भवेत् ॥ १८ ॥ डमरुं मध्यमं पिण्ड्यं सूचीकर्णे तु उद्धृतम् 1. तर्जन्यग्रं तु सूच्यग्रं तर्जनी रजनी भवेत् ॥ १९ ॥ अथवा चर्मसूत्रं तु पिण्डी मध्याङ्गुलोपार | अनामिकोपरिष्टात्तु डमरु परिकल्पयेत् ॥ २० ॥ डमरोर्दीर्घविस्तारं वसुपञ्चाङ्गुलं क्रमात् । मध्यं गुणाङ्गुलव्यासं पद्माकारं प्रकल्पयेत् ॥ २१ ॥ वलयद्वयसंयुक्तं चर्मसूत्रेण बन्धितम् । गव्येनाकृतविम्बं तं तद्रव्येण तु कारयेत् ॥ २२ ॥ सूच्यग्रात्कर्णसीमान्तं चत्वारिंशतिमात्रकम् ।
पञ्चचत्वारिंशद्वा पञ्चाशन्मातु (त्र ) कं तु वा || २३ || पार्श्वसूत्रं समं सूच्या वन्यास्तौ मध्याङ्गुलम् | दक्षिणे पूर्वहस्तं तु अभयं परिकल्पयेत् || २४ ॥ प्राकसूत्रादुभये हस्ते मध्यं भानुद्वयाङ्गुलम् | तन्मध्यमाङ्गुलान्तं तु हिक्कासूत्रसमं भवेत् ॥ २५ ॥ 'सूत्रात्कूर्परनीत्रं च चत्वारिंशदद्विमात्रकम् |
अभयं प्रकोष्ठमध्ये तु भुजं [ग]वलयं न्यसेत् ॥ २६ ॥ प्रकोष्ठमध्यनाहं स्यात् सपादं तस्य दीर्घकम् । तत्सूत्रादुपरि ख्यातं फणं भान्वङ्गुलं भवेत् ॥ २७ ॥ सप्ताङ्गुलं विशालं तु घनमेकाङ्गुलं भवेत् । संस्थितान्समीक्षेतु जिह्वानीत्रं समन्वितम् ॥ २८ ॥