________________
काश्यपशिल्पे पञ्चषष्टितमः पटलः ।
भुजंगवलयं ह्येवं कल्पयेत्कल्पवित्तमः । सूत्रात्कक्षान्तरं सव्ये पार्श्वे द्वादशमात्रकम् ॥ २९ ॥ सूत्रान्मध्योदरं वामे नवागुलमुदाहृतम् । नवमात्पिण्डसूत्रं तु सूत्रादष्टादशाङ्गुलम् || ३० ॥ सूत्रात्कुञ्चितजान्वोस्तु अन्तरं तु दशाङ्गुलम् । नवागुलं चाष्टमात्रं जानुनीत्रं यथाक्रमम् ॥ ३१ ॥ भानुरुद्रदशाङ्गुल्यं नतमानं तु कल्पयेत् । स्थिताङ्घ्रिजानुं चोर्चामं जानुनीत्रं तदाकुलम् ॥ ३२ ॥ त्रिपञ्चमनुमात्र वा जानुद्वयन्तं तथैव च । स्थिताङ्घ्रिनलकामध्याद्वामपार्ण्यन्तरं बुधः ॥ ३३ ॥ सवेदचत्वारिंशच्च साङ्गुलं प्रविधीयते । सप्ताष्टपञ्चचत्वारिंशत्त्व ( द ) ङ्गुलं नतं भवेत् ॥ ३४ ॥ स्थितजान्वो (नू) धृतं पार्ष्या चतुस्त्रिंशतिमात्रकम् । त्रयस्त्रिंशतिमात्रं वा जानुपार्ण्यन्तरं द्विज ॥ ३५ ॥ उद्घृताङ्घ्रिस्तु जान्वो (नू ) नाभिसूत्रं समं भवेत् । कूर्परं डोलहस्तं स्यान्नालसूत्रं दशाङ्गुलम् || ३६ ॥ एकादशाङ्गुलं वाऽथ कल्पे वा ( ल्येवं ) कूर्परान्तकम् । तद्धस्ते मणिबन्धस्तु वामजानु तु दूयन्तरम् ॥ ३७ ॥ दशाङ्गुलं वा कर्तव्यं नवाङ्गुलमुदाहृतम् । डोलहस्तं विविन्ध्यस्तदङ्गुलाग्रं विशेषतः ॥ ३८ ॥ वामपादे तु जङ्घादि इयन्तरं त्वङ्गुलं भवेत् । नवागुलान्तरं वाऽपि रुद्राङ्गुलमथापि वा ॥ ३९ ॥ डोलहस्ताद्भयान्तं तु दयन्तरं तु दशाङ्गुलम् । अन्योन्ययुक्तनीत्राणि यथासौन्दर्यमाचरेत् ॥ ४० ॥ केशान्ताद्धकपक्षं स्यात्तुङ्गन्मष्टादशाङ्गुलम् | सप्तदशाङ्गुलं वाऽथ षोडशाङ्गुलमेव वा ॥ ४१ ॥ तद वा त्रिपादं वा तस्य विस्तारमेव हि । सुविकीर्णजटाभारं पञ्च षट् सप्त नन्द वा ॥ ४२ ॥ रुद्रसंख्या तु वा विप्र उभयोः पार्श्वयोस्तथा । द्वात्रिंशाङ्गुलमारभ्यं चैकषष्टगुलान्तकम् ॥ ४३ ॥
२१७