________________
२१८
काश्यपशिल्पे पञ्चषष्टितमः पटलः ।
अङ्गुलाङ्गुलवृद्धचा तु जटादीर्घमुदाहृतम् । अधोजादीर्घमेवं तस्मादूर्ध्व तु मूर्धके ॥ ४४ ॥ कनिष्ठाङ्गुलिपरीणाहं जटानाहमुदाहृतम् । जटान्तपुष्पमालाभिरलंकृत्य विशेषतः ॥ ४५ ॥ नागं चैवार्कपुष्पं च धत्तूरकुसुमं तथा । हस्तिशिरीषकं चैव करोटिरत्नबन्धनम् ॥ ४६ ॥ ऋषिं धृत्वा तु मुकुटे दक्षिणे चन्द्रशेखरम् | सिन्धूराकृतितोलस्तु अष्टमालाविलम्बितम् ॥ ४७ ॥ भस्मोद्धूलितसर्वाङ्गं किंचित्प्रहसिताननम् । यज्ञोपवीतसंयुक्तं हरसूत्रसमन्वितम् ॥ ४८ ॥ देवाङ्गनोरुदे मध्ये बाहुधामेऽग्रमिर्गतिः । प्रभामण्डलमाश्रित्योदरबन्धाग्रको द्विज ॥ ४९ ॥ व्याघ्रचर्माम्बरोपेत ऊर्ध्वं गतिवसानकम् । डोलावाह्वोर्धृतो बन्धं व्याघ्रचर्म द्विजोत्तम ॥ ५० ॥ लम्बनं बाहुमूले तु भानुत्रयोदशाङ्गुलम् । तद वा त्रिपादं वा विस्तारं ल (च) क्रमण्डलम् ॥ ५१ ॥ पादौ नृपरसंयुक्ती सर्वाभरणभूषितौ । हस्तपादाङ्गुलं सर्वे रत्नहेमागुलीयुतम् ॥ ५२ ॥ मध्याङ्गुलि विध्या तु शेषं वै मुद्रिकान्वितम् । दक्षिणं कुञ्चितं पादपस्मारोपरि स्मृतम् ॥ ५३ ॥ तिर्यक्पादतलन्यासान्नृत्तं कुर्यान्महेश्वरः । वामपादं ततोद्धृत्य सतिर्यग्दक्षिणान्वितम् ॥ ५४ ॥ डोलहस्तमथः त्यन्तमपस्मारमिहोच्यते । त्रिचतुष्पञ्चमात्रं वा अपस्मारस्य दीर्घकम् ॥ ५५ ॥ अष्टचत्वारिंशांशं तु अपस्मारोदयं कुरु ।
उष्णीषं चैकभागेन केशान्तं च द्विधा भवेत् ॥ ५६ ॥ हृदयं नाभिपर्यन्तं तत्समं परिकीर्तितम् । नाभिमेद्स्य मूलान्त मानं पण्मातृ ( त्र ) कं भवेत् ॥ ५७ ॥
सप्ताङ्गुलं चोरुदीर्घ जानुदीर्घ द्वयाङ्गुलम् ।
जङ्घादि घो(चो) रुतुल्यं स्याद्व्यन्तरं चरणोदयम् ।। ५८ ।।