________________
काश्यपशिल्पे पश्चषष्टितमः पटलः ।
मन्वंशं तु करं हिक्का मध्यमाङ्गुलिसीमकम् | शेषं युक्त्या तु कर्तव्यं शाययेत्तु अधोमुखम् ॥ ५९ ॥ शंभोः सव्यशरीरस्थावुभौ पादौ तु कीर्तितम् | अपस्मारोदरोचं तु धर्मनन्दाष्टमात्रकम् || ६० ॥ तन्मुखं तु समुद्धृत्य बाललीलासमन्वितम् | व्यालं वै वामहस्तेन दक्षिणे तस्य चेन्द्रियम् ॥ ६१ ॥
सस्यश्यामनिभाकारमपस्मारं द्विजोत्तम । कलांशं पद्मपीठोचं विस्तारं च चतुर्गुणम् ॥ ६२ ॥ सपादं सार्धपादोनं द्विगुणं वा तदायतम् । ऊर्ध्वपद्ममघोषनं पिण्डिकां नो (चो) क्तवद्भवेत् ॥ ६३ ॥ प्रभामण्डल संयुक्तमनेन विधिना कुरु । गुणाङ्गुलं समारभ्य शतमात्रावसानकम् ॥ ६४ ॥ तावदेषाङ्गुलाख्या तु कालकोनशतोदयम् । एकाङ्गुलं समारभ्यैकैकावयववर्धनम् ॥ ६५ ॥ पश्चात्सख्यासनं ख्याते दण्डः स्यात्प्रथमस्य तु । तत्तदष्टांशहीनं तु ऊर्ध्वोर्ध्व तु क्रमात्कृशम् ॥ ६६ ॥ एकद्वित्रिचतुष्पञ्च षट्सव सुमात्रकम् । पुनः पुनस्तथा संख्यमुपकुर्यात्प्रकल्पयेत् ॥ ६७ ॥ कर्तुरिच्छावशातेषु दण्डसंख्यं तु तत्कुरु । नयनाताद (ल) लताभिश्च नानापुष्पैश्व शोभितम् ॥ ६८ ॥ तस्योपरिष्टादलिनं हस्तं वै शिखरं बुधः । कर्तव्यं परितो विप्र तालस्याभ्यन्तरान्वितम् ॥ ६९ ॥ भानुमण्डलं वा धीमान्मभामण्डलवर्तनम् | तस्य वामे उमा देवी प्रागुक्तविधिना कुरु ।। ७० ।। एतस्य प्रथमं पक्का सर्वलोकहितावहम् । तदेव दक्षिणे पार्श्वे जटाग्रे च विभाजिते ॥ ७१ ॥ शम्भोर्देहान्तरं चैव षोडशाङ्गुल (संमि) तम् । स्त्रीमानोक्ताङ्ग[सं]युक्तं हृदयं चालिसंयुतम् ॥ ७२ ॥ एवं मानविधिं युक्तं नृत्तं युक्त्या द्वितीयकम् । तदेव वापपादं तु अपस्मारोपरि स्थितम् ॥ ७३ ॥
२१९