________________
काश्यपशिल्पे पञ्चषष्टितमः पटलः । उद्धृतं दक्षिणं पादं वामपादं प्रसारितम् । ललाटमध्यवामे तु वामनासापुटान्तके ।। ७४ ॥ लम्बयेड्रह्मसूत्रं तु स्थितपादस्य गुल्फके। शेष प्रागिव कर्तव्यं यथानृत्ततृतीयकम् ॥ ७५ ॥ अवकीर्णजटाभारजटामुकुटसंयुतम् । जटामण्डलसंयुक्तं विशेषप्रथनृत्तवत् ॥ ७६ ॥ चतुर्थ नृत्तमेतद्धि सर्वप्राणिहितावहम् । कणोन्तमुद्धृतं सव्यपाद वाम तु कुश्चितम् ।। ७७॥ भूका(ता)टकसमायुक्तमेतत्पञ्चकनृत्तकम् । अभयं शूलपाशं च डमरूं दक्षिणे करे ।। ७८ ॥ कपालं चाग्निपाशं च गण्ड हस्तिफरोपमम् । गजहस्तोपमं हस्तं प्रसार्य दक्षिणानुकम् ॥ ७९ ॥ यद्वत्पथमनृतं स्यात्सर्वसूत्रं प्रसारयेत् । चित्तपञ्चमनृत्तं स्यादेवमेवेति नृत्यते ।। ८० ॥ दोर्भिः षोडशसंयुक्तं वामे गौरीसमायुतम् ।। हस्ताभ्यामुद्धृतं स्कन्धं स्तनं तस्य प्रसारितम् ॥ ८१ ।। अभयं शूलपाशं च खड्गं डमरुकध्वजम् । वेतालं सूचिहस्तं च दक्षमष्टकरं भवेत् ॥ ८२ ।। अनलं गजहस्ताभं खेटकं विस्मयं तथा । घण्टां चैव कपालं च छुरिकां सूचिमेव च ॥ ८३ ॥ वामे त्वष्टभुजाख्यातं शेष पञ्चमनृत्तवत् । एवं षष्ठाष्टमं ख्यातं राजराष्ट्रसुखावहम् ॥ ८४ ॥ त्रिनेत्रमष्टहस्तं च सुविकीर्णजटाधरम् ।। कुश्चितं वामपादं तु अपस्मारोपरि स्थितम् ।। ८५॥ वामपार्थे शिरस्थस्य विकीर्णाघ्रिश्च दक्षिणे । उद्धृतं दक्षिणामुष्ठमग्रं संहितसङ्गमम् ॥ ८६ ॥ पूर्वसूत्र तथाऽङ्गुष्टनीनं भान्वगुलं भवेत् । अभयं शूलपाशं च डमरु दक्षिणे करे ।। ८७ ।। कपालमग्निपात्रं च तथा विस्मयहस्तकम् ।। गजहस्तोपमं वामे चतुर्थे चैवमेव हि ॥ ८८॥