Book Title: Kashyashilpam
Author(s): Vinayak Ganesh Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 253
________________ काश्यपशिल्पे सप्तषष्टितमः पटलः । लम्बयेत्पूर्वसूत्रं तु द्वयन्तरं त्वेवमूह्यताम् । तत्सूत्राद्वामपार्थे तु हिक्कासूत्रं शिवाङ्गुलम् ।। ८ ।। अर्धागुलं तु तत्सूत्रं वा येन्द्रथ मे मेद तु मध्यमे । सत्सूत्रादक्षिणे नाभिमेदमध्यं युगाङ्गुलम् ॥ ९ ॥ [तत्सूत्राद्वामजान्वन्तमर्धमात्रं विधीयते । समभङ्गमिति ख्यातमतिभङ्गमथो शृणु ॥ १० ॥ उष्णीपादामपार्षे तु नेत्रान्ते च पुटान्तके । दक्षिणे स्तनमध्यान्तं तत्सूत्रं तु गुणाङ्गुलम् ॥ ११॥ नाभिमध्ये तु वामे तु सूत्रनीत्रं गुणागुलम् । तत्सूत्रं वामजान्वन्तमर्धमात्रं विधीयते ॥ १२॥ वामाज्रिपाणिसव्ये तु पार्श्वसूत्रं प्रलम्बयेत् । स्पर्शनं वेशनं नीवं स्म(स)पादस्थानकोत(क्त)वद ॥ १३॥ एवं त्रिभङ्गन्सूत्रेषु संमिश्रं तु न कारयेत् । उत्तम चातिभङ्गं स्यात्समभङ्ग तु मध्यमम् ॥ १४ ॥ अभङ्गमधमं ख्यातं त्रिपुरान्तकमूर्तितः । दक्षिणं स्वस्तिकं पादं वामपादं तु कुश्चितम् ।। १५॥ दक्षिण पूर्वहस्ते तु द्वे नाभी सूत्रसन्तक(त)म् । . सिंहकर्ण तु तद्धस्तं बाणमध्यं तु पिण्डितम् ॥ १६ ॥ बाणा[या]मं तु तत्सप्तव्यङ्ग्लं तु विधीयते । कनिष्ठाङ्गुलिपरीणाहं देवेशस्य करौ स्थितौ ॥ १७ ॥ आस्यं पञ्चाङ्गुलव्यासमास्योचं व्याससदृशम् । आस्यतुङ्ग समं पूज्यं तुङ्ग-मन्याङ्गुलीततम् ॥ १८ ॥ वामहस्ते धनुर्धत्वा कक्षान्तात्तत्करोर्बकम् । एकदिव्यङ्गुलं वाऽपि तस्माद्धृत्यानतं तु वा ॥ १९ ॥ शताङ्गुली (लं) तु तुङ्ग वा पञ्चसप्तनवाजुम्लम् । हीनं वाऽप्यधिकं वाऽपि नवधा धनुषाऽन्वितम् ॥ २०॥ पूर्णमुष्टि तु नाहं स्यान्मध्यमाग्रौ कृशौ कुरु । अग्रं मध्याहुन्लव्यासं वृत्तवर्णे विचित्रकम् ।। २१ ।। बाणनाहं त्रिभागैकं रज्जुनाहं तु तन्तुना । • धनुर्दीर्घाष्टभागे तु सप्तांशं रज्जुदीर्घकम् ॥ २२ ॥

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304