________________
काश्यपशिल्पे सप्तषष्टितमः पटलः । लम्बयेत्पूर्वसूत्रं तु द्वयन्तरं त्वेवमूह्यताम् । तत्सूत्राद्वामपार्थे तु हिक्कासूत्रं शिवाङ्गुलम् ।। ८ ।। अर्धागुलं तु तत्सूत्रं वा येन्द्रथ मे मेद तु मध्यमे । सत्सूत्रादक्षिणे नाभिमेदमध्यं युगाङ्गुलम् ॥ ९ ॥ [तत्सूत्राद्वामजान्वन्तमर्धमात्रं विधीयते । समभङ्गमिति ख्यातमतिभङ्गमथो शृणु ॥ १० ॥ उष्णीपादामपार्षे तु नेत्रान्ते च पुटान्तके । दक्षिणे स्तनमध्यान्तं तत्सूत्रं तु गुणाङ्गुलम् ॥ ११॥ नाभिमध्ये तु वामे तु सूत्रनीत्रं गुणागुलम् । तत्सूत्रं वामजान्वन्तमर्धमात्रं विधीयते ॥ १२॥ वामाज्रिपाणिसव्ये तु पार्श्वसूत्रं प्रलम्बयेत् । स्पर्शनं वेशनं नीवं स्म(स)पादस्थानकोत(क्त)वद ॥ १३॥ एवं त्रिभङ्गन्सूत्रेषु संमिश्रं तु न कारयेत् । उत्तम चातिभङ्गं स्यात्समभङ्ग तु मध्यमम् ॥ १४ ॥ अभङ्गमधमं ख्यातं त्रिपुरान्तकमूर्तितः । दक्षिणं स्वस्तिकं पादं वामपादं तु कुश्चितम् ।। १५॥ दक्षिण पूर्वहस्ते तु द्वे नाभी सूत्रसन्तक(त)म् । . सिंहकर्ण तु तद्धस्तं बाणमध्यं तु पिण्डितम् ॥ १६ ॥ बाणा[या]मं तु तत्सप्तव्यङ्ग्लं तु विधीयते । कनिष्ठाङ्गुलिपरीणाहं देवेशस्य करौ स्थितौ ॥ १७ ॥ आस्यं पञ्चाङ्गुलव्यासमास्योचं व्याससदृशम् । आस्यतुङ्ग समं पूज्यं तुङ्ग-मन्याङ्गुलीततम् ॥ १८ ॥ वामहस्ते धनुर्धत्वा कक्षान्तात्तत्करोर्बकम् । एकदिव्यङ्गुलं वाऽपि तस्माद्धृत्यानतं तु वा ॥ १९ ॥ शताङ्गुली (लं) तु तुङ्ग वा पञ्चसप्तनवाजुम्लम् । हीनं वाऽप्यधिकं वाऽपि नवधा धनुषाऽन्वितम् ॥ २०॥ पूर्णमुष्टि तु नाहं स्यान्मध्यमाग्रौ कृशौ कुरु । अग्रं मध्याहुन्लव्यासं वृत्तवर्णे विचित्रकम् ।। २१ ।। बाणनाहं त्रिभागैकं रज्जुनाहं तु तन्तुना । • धनुर्दीर्घाष्टभागे तु सप्तांशं रज्जुदीर्घकम् ॥ २२ ॥