________________
२२२
काश्यपशिल्पे सप्तष्टितमः पटलः । दक्षिणे परहस्ते तु ज(टाजाहवि)संयुतम् । उष्णीषान्तं समुद्धृत्य वामे कृष्णयुगं ध्रुवम् ॥ ७॥ देवस्य वामपाचे तु देवीवहितकाननम् । स्वस्तिकं वामपादं तु दक्षिणं कुञ्चितं भवेत् ॥ ८॥ समजङ्ग(च)नतं सूत्रं कल्पयेत्कल्पवित्तमः । घसार्य दक्षिणं हस्तं वामहस्तं तु पुष्पकम् ॥९॥ अथवा दक्षिणे हस्ते प्रकोष्ठस्य त्रिवर्गकम् । श्रोणिहस्ततलं लम्ब्य स्वप्नस्थितिमिव क्रमात् ॥ १० ॥ सर्वाहंकारसंयुक्तं सर्वालंकारसंयुतम् । भागीरथीदक्षिणे पार्थे मुनिभिः पठ्यतेश्वरः॥ ११ ॥
गङ्गाधरं हरमिति .... ... ततो वै त्रिपुरान्तकम् ॥१२॥ इत्यशुमद्भदे काश्यपशिल्पे गङ्गाधरमूर्तिलक्षणं नाम षट्षष्टितमः पटलः ।
॥ अथ सप्तषष्टितमः पटलः ॥
त्रिपुरान्तकमूस्तु लक्षणं वक्ष्यते क्रमात् । त्रिचतुष्पञ्चमात्रं स्यानतमानं यथाक्रमम् ॥ १ ॥ अभङ्गं समभङ्ग च अतिभङ्गमिति त्रिधा । मतिमोचनतं भागं मानमेवं हि कल्पयेत् ॥ २॥ पादाङ्गुष्ठद्वयोथैव द्वयन्तरं षोडशाङ्गुलम् । अथङ्गं तद्विजानीयादष्टादशाङ्गुलं समम् ॥३॥ विंशत्यङ्गुलमाख्यात मतिभङ्गमिति स्मृतम् । तत्रिभागेकभागं तु पायोस्तु द्वयन्तरं भवेत् ॥४॥ उष्णीषाद्वामपार्थे तु नेत्रान्ते तत्पुटान्तके ।। हनोामे समालम्ब्य दक्षिणस्तनयामके ॥ ५ ॥ नाभेर्दक्षिणपार्थे तु वामोरुसमपार्श्वके । दक्षिणाऽस्तु पायोस्तु वामपार्वे तु लम्बयेत् ॥ ६ ॥ अभङ्ग सूत्रमारख्यातं समभङ्गमथो शृणु । ललाटमध्यनासाने पादयोः पार्णिमध्यमे ॥ ७ ॥