________________
३३४
काश्यपशिल्पे सप्तषष्टितमः पटलः ।
तदीर्घस्यानुकूलं तु धनुर्वक्रमुदाहृतम् । त्रिवक्रं सहितं वाऽथ बालचन्द्रो भवेत्तथा ॥ २३ ॥ धनुषा (रा) कृतिरेवं स्याल्लोहजं दारुजं तु वा । कर्तरीपरहस्तौ द्वौ टङ्कं कृष्णमृगान्वितम् ॥ २४ ॥ टङ्कं दक्षिणहस्ते तु वामहस्ते मृगो धृतः । जटामुकुटसंयुक्तं सर्वाभरणभूषितम् ।। २५ ।। प्रवालसदृशप्रख्यं वामे गौरीसमायुतम् । त्रिपुरान्तकमूर्तिस्तु प्रथमं लक्षणाश्चितम् ॥ २६ ॥ देवस्य वामपादं तु अपस्मारोपरि स्थितम् । शेषं प्राविग कर्तव्यं द्वितीयं लक्षणं भवेत् ॥ २७ ॥ स्वस्तिकं वामपादं तु दक्षिणं कुञ्चितं भवेत् । शेषं प्रागिव कर्तव्यं सूत्रादितरपार्श्वकम् || २८ ॥ तृतीयं लक्षणं प्रोक्तं चतुर्थं लक्षणं शृणु । तदेव वामपादं तु अपस्मारशिरः स्थितः ॥ २९ ॥ प्रागिवैवावशेषं तु चतुर्थे लक्षणं हितम् । Eat बाणधरे हस्ते मध्यरेखाकलाङ्गुलम् ॥ ३० ॥ तुर्याशं मनुमात्रं वा त्रयोदशाङ्गुलं तु वा । . भानुरुद्राङ्गुलं वाऽथ दयन्तरं षड्विधं भवेत् ॥ ३१ ॥ तत्परं कूर्परं नीत्रं श्रोणिपार्श्व तथा भवेत् । कक्षाद्धनुर्धनुर्हस्ते मणिबन्धान्तरं ततः ॥ ३२ ॥ तत्करे कूर्परोद्धारं हृदयान्तमुदाहृतम् । एकद्वित्रिचतुष्पञ्चमात्रं तन्मानकं तु वा ॥ ३३ ॥ सर्वेषामपि सामान्यं द्वयन्तरं कथितं मतम् । तदेव पूर्वहस्तौ द्वौ कटको हृदयस्थितौ ॥ ३४ ॥ वामे दक्षिणहस्तं तु क्रमाद्वंद्वद्वयोर्मुदा । बाणमूलं घृतं सव्यं वामं बाणाग्रकं धृतम् ।। ३५ ।। परहस्ते दक्षिणे टङ्कं धनूंषि वामहस्तके | सव्ये पार्श्वे भृगुर्वाऽथ वामे गौरीसमायुतम् ॥ ३६ ॥ अपस्मारं विना पादं नतसूत्रं च पार्श्वयोः । एवं चतुर्भुजोपेता मूर्तिः पञ्चविधा भवेत् ।। ३७ ॥