________________
२२५
काश्यपशिल्पेऽष्टषष्टितमः पटलः । अतिभई नतो भेदमष्टहस्तसमन्वितम् । बाणं च परशुं खड्गं यज्ञं वै दक्षिणे करे ॥ ३८॥ धनुषी विस्मयं खेटं मृगहस्तमथापि वा । वामहस्तमिदं ख्यातं पूर्वहस्ताकरान्तकम् ॥ ३९ ॥ यथाशोभं तथा तुझं कल्पयेद्गौरिसंयुतम् । षष्ठमप्येवमाख्यातं सप्तमं च अथोच्यते ॥ ४०॥ बाणं चक्रं तथा शूलं टळू वजं च दक्षिणे। धनुः शङ्ख तथा सूचिं विस्मयं खेटकं तथा ॥ ४१ ॥ वामे पञ्चकर ख्यातमतिभङ्गस्तथोपरि । तथैव दक्षिणं जानुं वामोपरि निधापयेत् ॥ ४२ ॥ तत्पूर्वे या(वा)मपादं तु तले न्य[स्य] रथोपरि । रथं तु मुकुलोपेतं मुकुल रज्जुनाऽऽवृतम् ॥ ४३ ।। मुकुलाभ्यन्तरे ब्रह्म चतुर्वक्त्रं चतुर्भुजम् । तस्य दक्षिणहस्तौ द्वौ वेणुदण्डकमण्डलुम् ॥ ४४ ॥ कुण्डिका पद्मपाशं च वामहस्तद्वयोधृतम् । रथस्य मुकुलाधस्तादृषभं चातिवर्णकम् ॥ ४५ ॥ रथं याप(पूर्वे)णमार्गेण कल्पयेत्कल्पवित्तमः। त्रिपुरान्तकमाख्यातमष्टभेदं द्विजोत्तम ॥ ४६ ॥ प्रवालसदृशं प्रणां(ख्यं) सत्त्वराजसमुश्रु(संयुतम् । सर्वाभरणसंयुक्तं मेघवक्त्रं त्रिनेत्रकम् ॥ ४७ ॥ तस्य वामे स्थिता देवी मागुक्तविधिना कुरु ।
सामान्यलक्षणं कार्य त्रिपुरान्तकमूर्तिनः ॥ ४८॥ इत्यंशुमद्भेदे काश्यपशिल्पे त्रिपुरान्तकमूर्तिलक्षणं नाम
सप्तषष्टितमः पटलः।
॥ अथाष्टषष्टितमः पटलः ॥
अथ कल्याणमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना ।
ललाटमध्यवामे तु वामनेत्रावसानके ॥१॥ २१