________________
२२६
काश्यपशिल्पेऽष्टषष्टितमः पटलः ।
वामनासापुटान्ते च हिक्कामध्ये चलं भवेत् । दक्षिणं नाभिमध्ये तु देवहत्वा (स्ता ) गुलं भवेत् ॥ २ ॥ नीत्वा स्थिताङ्घ्रिगुल्फः स्यान्मध्ये सूत्रं प्रलम्बयेत् | द्वयन्तरं नतमानं च समभङ्गं यथाक्रमम् ॥ ३ ॥ स्वस्तिकं वामपादं तु दक्षिणं कुञ्चितं भवेत् । दक्षिणं पूर्व हस्तं तु गौरीदक्षिणहस्तधृत् ॥ ४ ॥ वरदं वामहस्तं तु परहस्तद्वयोस्त(र्व) रम् | दक्षिणे परशुं वाऽथ वामे कृष्णमृगं तथा ॥ ५ ॥ जटामुकुटसंयुक्तं सर्वाभरणभूषितम् । देवं प्रवालवर्णाभं पार्श्वे तस्य विशेषतः ॥ ६ ॥ सस्यश्यामनिभा देवी प्राग्वन्मानादिसंमताम् । उत्पलं वामहस्ते तु धृतदक्षिणहस्तकम् ॥ ७ ॥ शंभोर्दक्षिणसंग्राह्य लज्जालम्बसमन्वितम् । पूर्वस्यानुगुणं शीघ्रं सर्वाभरणभूषितम् ।। ८ ।। हस्ताभ्यां संस्पृशेद्वेदौ तौ (गो) यस्तु कटिं द्विजः । देवाग्रे कारयेत्कुण्ड होमकर्म प्रजापतिः ॥ ९ ॥ शंभोर्वै स्तनसीमान्तं प्रजेशस्योदयं भवेत् । चतुर्भुजं चतुर्वक्त्रं सर्वाभरणभूषितम् ॥ १० ॥ अजिनं चाक्षमाला च वामहस्तेऽधरे पु ( प ) रे । दक्षिण पूर्व हस्तं तु घृतवामकरः क्रमात् ॥ ११ ॥ उत्तराभिमुखासीनः पद्मपीठे प्रजापतिः । प्रभाम्रौ देवीदेवेशौ देवी देवस्य दक्षिणे ।। १२ ।। दक्षिणाभिमुख विष्णुर्होमस्योत्तरदिस्थितः । शंभो मासीसीमान्तं श्रेष्ठायामं स्तनान्तकम् ॥ १३ ॥ तयोर्मध्येऽष्ट वा भज्य नवधा केशवोदयम् । श्यामवर्ण समं भागं शङ्खचक्रं परे करे ॥ १४ ॥ हिरण्यपरकोणापा पूर्व हस्तद्वयोपरि । संग्राह्यं वरदे हस्ते सुतीर्थोदकपूर्वकम् ।। १५ ।। अनादिगोत्रसंभूतं श्रीशैवं परमेश्वरम् । आदिगोत्रा उमा गौरी तत्रैवास्मिन्ददाम्यहम् ॥ १६ ॥