________________
२६७
काश्यपशिल्पे सप्ततितमः पटलः । इत्युक्त्वा वरदे हस्ते दद्यार्थोिदकं हरिः। अष्ट लोकेशविद्येशसिद्धप(य)श्व गणादयः ॥ १७ ॥ ऋषयश्चैव गन्धर्वा अप्सराश्च सदैवताः ॥ १८ ॥ इत्यंशुमद्भेदे काश्यपशिल्पे कल्याणमूर्तिलक्षणं नामा
ष्टषष्टितमः पटलः ।
॥ अथैकोनसप्ततितमः पटलः ॥
अर्धनारीशमूर्तेस्तु लक्षणं वक्ष्यते शृणु । चतुर्भुज षड्भुजं च द्विभुजं परिकीर्तितम् ॥ १ ॥ सभङ्ग स्थानकस्योक्तमागणवानतोदयः। स्वस्तिकं दक्षिणं पादमितरं कुश्चितं भवेत् ॥ २ ॥ वामार्धं पार्वतीरूपं दक्षिणार्धं महेश्वरम् । अभयं परशुं सव्ये हस्ते वह्नि शिवांशके ॥ ३ ॥ वृषभं मूर्तिकन्यस्तकूपरं वामहस्तके । तदन्यद्वामहस्तं तु कटकं पुष्पसंयुतम् ॥ ४ ॥ द्विभुजे वरदं सव्ये वामहस्ते तु पुष्पधृत् । शिवास्य(वस्याऽs)भरणं सव्ये वामे श्रीभूषणाश्चितम् ॥ ५॥ पुस्तकं दक्षिणे पार्वे वामे स्त्रीणां पयोधरम् । अथवा कुञ्चितं सव्यं पादं वामं तु स्वस्तिकम् ॥६॥ सव्यं शूलधरं हस्तं वामे पुष्करकं धतम् । वरदं दक्षिणं हस्तमन्योक्षिशिरपूर्वकम् ॥ ७॥ कपालं दक्षिणे हस्ते वामहस्तं प्रसारितम् ।। दक्षिणे रौद्रदृष्टिः स्याद्वामे पार्थे तु शीतलम् ॥ ८ ॥ दुकूलं चोरुमध्यान्तं सव्यं गुल्फान्तमन्यकम् ।
एवं विस्तारतः प्रोक्तमर्धनारीश्वरं परम् ॥९॥ इत्यंशुमद्भेदे काश्यपशिल्पेऽर्धनारीश्वरलक्षणं नामकोनसप्ततितमः पटलः ।
॥ अथ सप्ततितमः पटलः ।।
अथ वक्ष्ये विशेषेण गजहामूर्तिलक्षणम् । ललाटमध्यनासाग्रं वामे तु स्तनमध्यमात् ॥ १॥