________________
२२८
काश्यपशिल्पे सप्ततितमः पटलः । वामद्विपिण्डमध्यात्तु पूर्वसूत्रं प्रसारयेत् । तत्सूत्राक्षिणे वामे पादपाय॑न्तरं द्विज ॥ २ ॥ साष्टत्रिंशतिमात्र वा षट्त्रिंशत्यगुलं तु वा । सत्सूत्राद्वामनो(तः) सव्यपादाङ्गुष्ठान्तरं द्विज ॥ ३॥ एकविंशतिमात्रं वा एकोनविंशदेव वा । चतुर्हस्ताष्टहस्तं वा सर्वाभरणसंयुतम् ॥ ४ ॥ चतुर्भुज चेत्पांशं च भे(ग)जचर्म च दक्षिणे । गजास्यं गजचमे स्यावामपाश्वकरद्वयम् ॥ ५॥ चतुदो:वमाख्यातमष्टहस्तमयोच्यते । गजस्य मस्तक पाशं गजचर्म च दक्षिणे ॥६॥ गजशृङ्ग कपालं च गर्जचर्म च विस्मयम् । वामपार्थे तु चत्वारो हस्तमे(स्ता ह्ये)वं प्रकीर्तितम् ॥ ७॥ शंभोर्चामाङ् यधस्तात्तु गजस्येव तु मस्तकम् । मुकुटस्योपरिष्टात्तु गजपुच्छं प्रकाशयेत् ॥ ८ ॥ पार्श्वयोगे जयायां तु यथा युक्त्या तु कारयेत् । प्रभामण्डलवच्छेषं गजचर्म प्रकल्पयेत् ॥९॥ शूलखड्गधरं चर्म गजशृङ्गं च दक्षिणे । कपालं खेटकं खड्ग गजचर्म च वामके ॥ १० ॥ ललाटमध्यनासाग्रं दक्षिणस्तनमध्यमात् । सव्यपीठस्य मध्यं तु लम्बयेहह्मसूत्रकम् ॥ ११ ॥ स्वस्तिकं वामपादं तु गजस्य मस्तकोपरि । उद्धृतं दक्षिणं पादं वाममुत्कुटिकं भवेत् ॥ १२ ॥ तदध्रिपाष्योः स्फिपिण्डावयन्तरं चतुरङ्गुलम् । तज्जानुवामकक्षस्य असिसूत्रं समं नयेत् ॥ १३ ॥ एवं द्विविधनीत्वा तु गजहामूर्तिरुच्यते ।। दक्षसूत्रादुमा देवी शंभीर्वामोभयान्वितम् ॥ १४ ॥
एवं हि कल्पितं बिम्बम(म्ब राजाविजयमाप्नुयात् ॥ १५ ॥ इत्यंशुमद्भदे काश्यपशिल्पे गजहामूर्तिलक्षणं नाम
सप्ततितमः पटलः ।
-
-
-