________________
काश्यपशिल्पे द्विसप्ततितमः पटलः ।
॥ अथैकसप्ततितमः पटलः ॥
२२९
अथ वक्ष्ये विशेषेण पाशुपत [स्य ] लक्षणम् । समपत्स्थानकं प्रोक्तं चन्द्रशेखरमूर्तिवत् ॥ १ ॥ त्रिनेत्रं च चतुर्बाहुं मूर्धकेशं महाधनुम् । अभयं शूलहस्तं च दक्षिणे तु करद्वये ॥ २॥ वरदं चाक्षमाला च वामपार्श्वकरद्वये । प्रवालसदृशप्रख्यं सौम्यनेत्रं तु शीतलम् || ३ || सर्वाभरणसंयुक्तं किंचित्प्रहसिताननम् ।
नित्योत्सवस्थ बिम्बार्थ स्थानकं वासनं तु वा ॥ ४ ॥ तदेवाग्रिसमं वर्णे रक्ताक्षं कुटिलद्र ( अ ) वम् । तीक्ष्णनेत्रस्य (त्रैश्च) संयुक्तं व्यालयज्ञोपवीतिनम् ॥ ५ ॥ ज्वालांनलशिखाकारमतिरत्ननिवासधृक् ।
शूलं तथो (स्वधो) मुखं धृत्वा कपालं वरदोद्धृतम् ॥ ६ ॥ अथवाऽभयं विना शूलं मूलं धृत्वा तु तत्करे । शूलाग्रं वरदेनैव गव्यतिर्यग्गते ध्रुवम् ॥ ७ ॥ दक्षिणे वरदे हस्ते टङ्कं खङ्गं तु वामके । कौतुकं पाशुपतनं बलिलिङ्गे तु पूज्यते ॥ ८ ॥ ध्यानपूजानिमित्तायामेतन्मूर्ति वदाम्यहम् । एतन्मूर्तिं सकृद्ध्यायेत्सर्वशस्त्रविनाशनम् ॥ ९ ॥ एवं तु रौद्रमूर्त्य (र्तिं) तु प्रतिमां नैव कारयेत् ॥ १० ॥ इत्यंशुमद्भेदे काश्यपशिल्पे पाशुपतमूर्तिलक्षणं नामैकसप्ततितमः पटलः |
॥ अथ द्विसप्ततितमः पटलः ॥
अथ कंकालमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना । पादौ तु पादुकोपेतौ भिक्षुकंकाललक्षणम् || १ | रक्षार्थ परिवारार्थ मोक्षार्थं तु विधीयते । स्थानकं गमनं ग्राह्यं द्वाविंशं तु प्रवक्ष्यते ॥ २ ॥