________________
२३०
काश्यपशिल्पे द्विसप्ततितमः पटलः । स्थानकं मूलबेरं च गमनं चोत्सवं भवेत् । दारुजा लोहजा वाऽथ सुधामृन्मयशर्करा ॥३॥ शिला च चित्रं वा कुर्यात्मतिमां वा यथाविधि । एवं च प्रतिमां कुर्यान्मानोन्मानप्रमाणवित् ॥ ४॥ प्रमाणमङ्वों कृत्वा मानं संग्राह्य बुद्धिमान् । अगुलैयेवसंयुक्तैर्हस्ततालवितस्तिभिः ॥ ५ ॥ आयादि शुभं संग्राह्य मानं शुद्धयर्थकं भवेत् । पादावधिष्ठानमानं द्वारतुङ्गसमेऽपि वा ॥ ६॥ मूललिङ्गन्समोत्तुङ्ग सार्ध द्वित्रियवं तु वा । तयोर्मध्याष्टभागं तु नवधा तुङ्गमानकम् ।। ७ ॥ उत्सवोद्यममानेन समस्तविधिरुच्यते । वामपादस्थितं चैव दक्षिणं गम्य वक्ष्यते ॥ ८॥ पादौ पादधृतौ चैव भवेदक्षिणकुश्चितम् । पायूंर्ध्वदृग्भवेत्पूर्व ब्रह्मसूत्रं प्रलम्बयेत् ॥ ९ ॥ पूर्वहस्तं कृतं वाऽपि दक्षिणे कर्षके धृतम् । हिरण्यस्य कृतं वाऽपि तर्जन्यगुष्ठस्पृक्यया ॥ १० ॥ योनिसीमावसानेन दुर्वाकार ए(इ)वापि वा । अथ वामकरे पात्रौ(त्र) नाभिसीमावसानकम् ॥ ११ ॥ डमरु पू(वा)हमस्ते तु हनुसीमावसानकम् । वामे शूलस्य हस्तं वा शिरिखपिक्खण्डसंयुतम् ॥ १२ ॥ ककालं च तदने तु बन्धयेद्धदयोपार । बाहुसीमावसानेन तत्कन्याच्यविकं भवेत् ॥ १३ ॥ एकद्वित्रिचतुर्मात्रं नताधिक्यादिमेव हि । स्थानके पूर्वसूत्रं वा भङ्गमानमथो शृणु ॥ १४ ॥ ललाटवामपार्थे तु नेत्रान्ते च पुटान्तके । हनोर्वामे तु हिक्कायां हृदये कालकोलकम् ॥ १५ ॥ नाभेश्च दक्षिणे सूत्रं पक्षाङ्गुलमिति त्रयम् ।। योनिनीनं तु सूत्रं वा दक्षिणे युगमात्रकम् ॥ १६ ॥ वामपादस्थितं वाऽपि द्विपादान्तरमध्यमे । स्थानकं ह्येवमाख्यातं गमनेषु विधीयते ॥ १७ ॥