Book Title: Kappasuttam Vhas Vises Chunni Sahiyam Part 01
Author(s): Bhadrabahuswami, Sanghdasgani Kshamashraman, 
Publisher: Shubhabhilasha Trust

View full book text
Previous | Next

Page 14
________________ अ-सज्ञिकायाः प्रतेरन्तरङ्गपरिचय: कस्यचिद्विषयस्य समाप्तौ प्रकरणस्यान्तेऽपि ॥छ॥ इति लिखितमस्ति। वाक्यान्ते दण्डः, गाथायाः सूत्रस्य वा प्रतीकस्योभयतः पार्श्वे दण्डद्वयं दत्तमस्ति सर्वत्र। यथा- ॥तेसु गाहा॥ अवग्रहचिह्नस्योपयोगः कृतोऽस्ति प्रतौ। लेखकेनोत्तमतया लिखितास्ति पूर्णा शुद्धा चास्ति प्रतिः। लेखकः प्राकृतविदस्तीति प्रतिभाति। प्रत्येकस्मिन् पृष्ठे चतुष्कोणाकारा मध्यफुल्लिका वर्तते। प्रतिरेषा संशोधिता वर्तते। अ-सज्ञिकायां प्रतौ प्रयुक्ता संशोधनपद्धतिः यत्र न्यूनमात्रं परिवर्तनं कर्तव्यमस्ति तत्र तस्यैवाक्षरस्य शब्दस्य वोपरि परिवर्तनं क्रियते। यथाद्वितीये पत्रे बभागे सप्तमपङ्क्तौ। ___ कुत्रचिद्यत्राशुद्धः पाठो वर्तते तत्र पाठस्यैवोपरि x एतच्चिद्रं दीयते। तथा पत्रस्य दक्षिणे वामे वा भागे शुद्धः पाठो न्यस्यते। यथा— द्वितीये पत्रे बभागे षष्ठपङ्क्तौ। ___ यत्र पूर्णा पकिर्दातव्यास्ति तदा पङ्क्तेः उभयतः पार्श्वे x चिह्नस्यास्योपयोगः क्रियते पङ्क्तिक्रमाङ्कश्च लिख्यते। यथा— अष्टमे पत्रे बभागे चतुर्थपङ्क्तौ। ब-सज्ञिकायाः प्रतेर्बहिरङ्गपरिचयः एषा प्रतिरपि अणहिलपुरपत्तनस्थहेमचन्द्राचार्यजैनज्ञानमन्दिरहस्तप्रतभाण्डागारतो लब्धा। तत्र सूचिपत्रे तस्याः क्रमाङ्कः डा.१७२/६७६८ अस्ति। तस्या एकोननवतिः पत्राणि सन्ति। एषा प्रतिर्नास्ति पूर्णा स्थितिरप्यस्या मध्यमास्ति। प्रतिपृष्ठं षोडश पङ्क्तयस्सन्ति प्रतिपङ्क्ति एकसप्ततिरक्षराणि च। प्रतिः शुद्धा सुवाच्या चास्ति। पुष्पिकामङ्गलवाक्यम्- ॐ नमः सर्वज्ञाय॥ इत्यस्ति। अन्तपुष्पिका न प्राप्यते। लेखकलेखनकालयोर्निर्देशो नास्ति। पत्राङ्कपद्धतिरप्रतेः सदृश्येवास्ति। प्रथमे पत्रे विशेष कल्प चूर्णि इति ग्रन्थनामोल्लेखोऽस्ति अन्यत्रोल्लेखो नास्ति। ब-सज्ञिकायाः प्रतेरन्तरङ्गपरिचयः प्रकरणान्ते वा कश्चिद्विषयस्य विवरणान्ते ॥छ॥ चिह्नमेतद्दीयते। गाथाप्रतीकस्यान्ते दण्डद्वयं दीयते। स्खलिताक्षराणामुल्लेखः - चिह्नस्यास्य निर्देशं कृत्वा पत्रस्य दक्षिणे वामे वा भागे क्रियते। क-सज्ञिकायाः प्रतेर्बहिरङ्गपरिचयः एषा प्रतिः पुण्यपत्तनस्थभाण्डारकरप्राच्यविद्यासंशोधनकेन्द्रीयभाण्डागाराल्लब्धा। तस्याः (१३)

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 504