________________
अ-सज्ञिकायाः प्रतेरन्तरङ्गपरिचय:
कस्यचिद्विषयस्य समाप्तौ प्रकरणस्यान्तेऽपि ॥छ॥ इति लिखितमस्ति। वाक्यान्ते दण्डः, गाथायाः सूत्रस्य वा प्रतीकस्योभयतः पार्श्वे दण्डद्वयं दत्तमस्ति सर्वत्र। यथा- ॥तेसु गाहा॥ अवग्रहचिह्नस्योपयोगः कृतोऽस्ति प्रतौ।
लेखकेनोत्तमतया लिखितास्ति पूर्णा शुद्धा चास्ति प्रतिः। लेखकः प्राकृतविदस्तीति प्रतिभाति। प्रत्येकस्मिन् पृष्ठे चतुष्कोणाकारा मध्यफुल्लिका वर्तते। प्रतिरेषा संशोधिता वर्तते। अ-सज्ञिकायां प्रतौ प्रयुक्ता संशोधनपद्धतिः
यत्र न्यूनमात्रं परिवर्तनं कर्तव्यमस्ति तत्र तस्यैवाक्षरस्य शब्दस्य वोपरि परिवर्तनं क्रियते। यथाद्वितीये पत्रे बभागे सप्तमपङ्क्तौ। ___ कुत्रचिद्यत्राशुद्धः पाठो वर्तते तत्र पाठस्यैवोपरि x एतच्चिद्रं दीयते। तथा पत्रस्य दक्षिणे वामे वा भागे शुद्धः पाठो न्यस्यते। यथा— द्वितीये पत्रे बभागे षष्ठपङ्क्तौ।
___ यत्र पूर्णा पकिर्दातव्यास्ति तदा पङ्क्तेः उभयतः पार्श्वे x चिह्नस्यास्योपयोगः क्रियते पङ्क्तिक्रमाङ्कश्च लिख्यते। यथा— अष्टमे पत्रे बभागे चतुर्थपङ्क्तौ। ब-सज्ञिकायाः प्रतेर्बहिरङ्गपरिचयः
एषा प्रतिरपि अणहिलपुरपत्तनस्थहेमचन्द्राचार्यजैनज्ञानमन्दिरहस्तप्रतभाण्डागारतो लब्धा। तत्र सूचिपत्रे तस्याः क्रमाङ्कः डा.१७२/६७६८ अस्ति। तस्या एकोननवतिः पत्राणि सन्ति। एषा प्रतिर्नास्ति पूर्णा स्थितिरप्यस्या मध्यमास्ति। प्रतिपृष्ठं षोडश पङ्क्तयस्सन्ति प्रतिपङ्क्ति एकसप्ततिरक्षराणि च। प्रतिः शुद्धा सुवाच्या चास्ति।
पुष्पिकामङ्गलवाक्यम्- ॐ नमः सर्वज्ञाय॥ इत्यस्ति। अन्तपुष्पिका न प्राप्यते। लेखकलेखनकालयोर्निर्देशो नास्ति। पत्राङ्कपद्धतिरप्रतेः सदृश्येवास्ति। प्रथमे पत्रे विशेष कल्प चूर्णि इति ग्रन्थनामोल्लेखोऽस्ति अन्यत्रोल्लेखो नास्ति। ब-सज्ञिकायाः प्रतेरन्तरङ्गपरिचयः
प्रकरणान्ते वा कश्चिद्विषयस्य विवरणान्ते ॥छ॥ चिह्नमेतद्दीयते। गाथाप्रतीकस्यान्ते दण्डद्वयं दीयते। स्खलिताक्षराणामुल्लेखः - चिह्नस्यास्य निर्देशं कृत्वा पत्रस्य दक्षिणे वामे वा भागे क्रियते। क-सज्ञिकायाः प्रतेर्बहिरङ्गपरिचयः
एषा प्रतिः पुण्यपत्तनस्थभाण्डारकरप्राच्यविद्यासंशोधनकेन्द्रीयभाण्डागाराल्लब्धा। तस्याः
(१३)