________________
सूचिपत्रे क्रमाङ्कः –२८२.१९०/१८७३,७४ अस्ति। अस्मिन् प्रतौ द्व्यशीत्यधिकद्विशतानि पत्राणि सन्ति। प्रत्येकस्मिन् पृष्ठे दश पङ्क्तयस्सन्ति। प्रत्येकस्यां पङ्क्तौ सप्तचत्वारिंशद् अक्षराणि सन्ति।
पुष्पिकामङ्गलवाक्यम्— ॐ नमो सर्वज्ञाय ॥ तथा
अन्तपुष्पिका— श्रीरस्तु॥ कल्याणमस्तु॥
लेखकलेखनकालयोर्निर्देशो नास्ति। पत्राङ्कः पत्रस्य दक्षिणे भागे दत्तोऽस्ति ।
क-सञ्ज्ञिकायाः प्रतेरन्तरङ्गपरिचयः
सामान्यतो वाक्यान्ते गाथाप्रतीकस्यान्ते च दण्डद्वयस्योपयोगः कृतोऽस्ति । प्रकरणान्ते ॥ ॥ लिखितमस्ति। क्वचिदवग्रहचिह्नस्योपयोगो दृश्यते । एषा प्रतिः संशोधितास्ति परं किञ्चिदशुद्धास्ति । क- प्रतौ प्रयुक्ता संशोधनपद्धतिः
अस्यां प्रतौ काकपादस्योपयोगः क्रियते पाठसंशोधनार्थम् । अक्षरस्य सम्मार्जनार्थं ( to delete ) तस्योपरि दण्डाकारा लघ्वी रेखा दीयते ।
ड-सञ्ज्ञिकायाः प्रतेर्बहिरङ्गपरिचय:
एषा प्रतिः पुण्यपत्तनस्थभाण्डारकरप्राच्यविद्यासंशोधनकेन्द्रीयभाण्डागाराल्लब्धा । सूचिपत्रे तस्याः क्रमाङ्कः १३४.३९९/१८८०-८१ अस्ति। तस्याः चतुस्त्रिंशदधिकशतपत्राणि सन्ति । प्रतिपत्रं सप्तदशपङ्क्तयः तथा प्रतिपङ्क्ति चतुष्पञ्चाशद् अक्षराणि सन्ति । स्थितिरस्या मध्यमास्ति। पुष्पिकामङ्गलवाक्यम्— ॐ नमः सर्वज्ञाय ।
अन्तपुष्पिका नास्ति।
लेखकलेखनकालयोर्निर्देशो नास्ति । ग्रन्थनाम दत्तमस्ति प्रतिपृष्ठम् – कल्प विशे चूर्णि । इति । ड-सञ्ज्ञिकायाः प्रतेरन्तरङ्गपरिचयः
वाक्यान्ते दण्डमेकम् गाथाप्रतीकान्ते दण्डद्वयस्योपयोगः । उद्देशसमाप्तौ ॥छ ॥ लिख्यते । नूतनोद्देशकस्यारम्भे सामान्यतः — नमो अर्हद्भ्यः लिख्यते । क्वचिदवग्रहचिह्नस्योपयोगो दृश्यते । प्रतिः संशोधिता नास्ति ।
इ-सञ्ज्ञिकायाः प्रतेर्बहिरङ्गपरिचयः–
एषा प्रतिः राजनगर (अहमदाबाद) स्थ- लालभाई-दलपतभाई-भारतीयसंस्कृतिविद्यामन्दिर-हस्तप्रतभाण्डागारतः प्राप्ता । सूचिपत्रे तस्याः क्रमाङ्कः १२४ अस्ति। तस्याः पञ्चषष्ठ्यधिकशतमितानि पत्राणि सन्ति । प्रतिपत्रं त्रयोदशपङ्क्तयः, प्रतिपङ्क्ति पञ्चपञ्चाशद्
( १४ )