SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अक्षराणि सन्ति। मध्यमा स्थितिर्विद्यते। लेखकलेखनकालयोर्निर्देशो नास्ति। ग्रन्थनामोल्लेख: सक्षेपतः— कल्पवि. चूर्णि इत्युपलभ्यते प्रतिपत्रम्। इ-सज्ञिकायाः प्रतेरन्तरङ्गपरिचयः प्रकरणान्ते छ लिख्यते। पत्रस्य प्रथमायां पङ्क्तौ विद्यमाना इकारस्य मात्राः सुशोभिताः सन्ति सर्वत्र। प्रतिः संशोधिता नास्ति। सम्पादनप्रकारः तत्र तावत्प्रथमं अ-ब-सज्ञकप्रत्यनुसारेण प्राज्ञवर्यैः पगारियोपाद्वैः रूपेन्द्रमहोदयैर्लिप्यन्तरं कृतम्। अनयोः प्रतयोर्मूलादर्शरूपा प्रति!पलभ्यते। प्रतिलेखकेन आदर्शप्रतिः सम्यङ्नावगतातो बढ्योऽशुद्धयोऽत्र सम्प्राप्ताः। यथा गाहा इत्यस्य स्थाने कहा, गामो इत्यादयः। एता अशुद्धयः पगारियामहोदयैर्वृहत्कल्पचूर्णेराधारेण सम्मार्जिताः सन्ति। तदनूपलब्धानां सर्वासां प्रतीनामाधारेण पाठान्तराः सङ्ग्रहीताः। तत्र अनुलेखनीयसम्भावनया ये पाठाः स्फुटरूपेण प्रतिलेखकप्रमाददोषजन्याः प्रतिभासिताः तानवगण्य अन्ये पाठाः टीप्पण्यां न्यस्ताः। यथा—३६२१तमगाथायां असुइ गाहा इत्यस्य स्थाने असुइए वा इति शुद्धः पाठः। ५११७तमगाथायां नगर इत्यस्य स्थाने घर इति शुद्धः पाठः। (ला.द. २००) ५१६५तमगाथायां दाअन्यथला इत्यस्य स्थाने दन्येऽपि तज्जातीया इति शुद्धः पाठः। (ला.द. २०२) ५१८४तमगाथायां गाहा उ तत्थ इ इत्यस्य स्थाने गाहापच्छद्धं इति शुद्धः पाठः। (ला.द. २०३) ५२४४तमगाथायां अणाभावितो कोविता इत्यस्य स्थाने आणाभंगाणवत्थं इति शुद्धः पाठः। (ला.द. २०५) ५२४८तमगाथायां विगाहा इत्यस्य स्थाने थी गाहा इति शुद्धः पाठः। (ला.द. २०६अ) चतुर्थोद्देशस्य अष्टादशे सूत्रे णिग्गंथिणिग्गंथीउ पुव्ववणियाणि इत्यस्य स्थाने णिग्गंथेणं णिग्गंथाउ पुव्ववण्णियाउ इति शुद्धः पाठः।(ला.द. २०९अ) चिकित्सकसम्पादने पाठनिर्धारणप्रक्रियात्यन्तं महत्त्वं बिभर्ति दुष्करा च वर्तते। अत्यन्तसावधानेन मनसा सूक्ष्मप्रज्ञाप्रयोगेण पाठनिर्धारणं कर्तव्यं भवति सम्पादकेन, अन्यथा अशुद्धपाठप्रवेशादिका अनर्था भवन्ति। अत्र संशयास्पदपाठनिर्धारणार्थं प्राधान्येन ( १५ )
SR No.007786
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 01
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages504
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy