SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ पूज्यपादाचार्यश्रीमलयगिरिसूरिकृतवृत्तेरेवोपयोगः कृतः, यतः सा एव चूर्णर्भाष्यकारस्य च आशयानुगुणा वर्तते। कल्पचूर्णेः कल्पविशेषचूर्णेश्च पाठाः सप्तत्यधिकप्रतिशतं साम्यं बिभ्रतीति तस्य उपयोगः पगारियामहोदयैः कृत इति तु अनुपदमेवोक्तम्। ___ बृहत्कल्पमूलसूत्राणां पाठः मुच'- पुस्तकाधारेण गृहीतः। भाष्यगाथानां पाठोऽपि श्रीचतुरविजयसम्पादितमुद्रितपुस्तकाधारेण गृहीतः। चूर्णिकृता भाष्यगाथानां यानि प्रतीकान्युद्धतानि सन्ति तेभ्यो मुद्रितभाष्यपाठानां यत्र पाठभेदः दृष्टस्तत्र चूर्णिकृत्सम्मतः पाठ आदृतः। अतो भाष्यपाठस्य भाष्यगाथानामकारादिक्रमश्च भिन्नो भविष्यति। मुद्रितपाठः टीप्पण्यां न्यस्तः। एतेन पूज्याचार्यश्री मलयगिरिसूरेरर्वाग् भाष्यपाठः क आसीदिति ज्ञास्यते। भाष्यं नियुक्तिमिश्रितं वर्तते। भाष्ये नियुक्तिगाथा का इत्यस्य निर्णये द्वौ आधारौ-चूर्णिः, मलयगिरीया वृत्तिश्च। अन्यच्च भाष्यस्यान्तरिकी रचनापद्धतिं ज्ञात्वा तद्विषये कश्चिन्निर्णयः कर्तुं शक्यः। तृतीयं अन्यान् सन्दर्भान् दृष्ट्वापि निर्णयो भवितुमर्हति। यथात्र भाष्ये दृश्यमाना गाथाः पिण्डनिर्युक्तौ ओघनिर्युक्तौ आवश्यकादिनिर्युक्तौ उपलभ्यन्ते चेदत्रापि अस्य नियुक्तिगाथा भविष्यन्तीत्यनुमातुं शक्यते। अत्रास्माभिः चूर्णिकृता पुरातनगाथात्वेन उल्लिखिता आचार्यश्रीमलयगिरिसूरिभिश्च शब्दशो येषां उल्लेखः कृतः ताः सर्वा अपि गाथाः नियुक्तिसत्का इति विभावितम्। भाष्यकृतोपन्यस्ताः सम्बन्धगाथाः, सङ्ग्रहगाथाश्च नियुक्तिरूपा अन्या वा इति निर्णये किमपि वक्तुमसामर्थ्यमस्माकमिति। कुत्रचिद् विशेषचूर्णी अनुपलभ्यमानः पाठः वृत्तिगतपाठमनुसृत्य पूरितः सम्पादितश्चा यथा—२८४८तमगाथायाम्। सम्भाविताः पाठाः टीप्पण्यां 'भाव्यम्' पदेन निर्दिष्टाः सन्ति। शङ्कास्पदस्य पाठस्याग्रे प्रश्नचिह्न कृतम्। विशेषचूर्णिकृता उपात्तेषु भाष्यगाथाप्रतीकेषु मुद्रितभाष्यगाथायाः वाचनाभेदो बहुत्र दृश्यते। स तथैव न्यस्तः। मुचपुस्तके भाष्यगाथासु पदच्छेदः कृतः स एवात्रापि आदृतः। कुत्रचित् सर्वास्वपि प्रतिषु अशुद्धः पाठो विद्यते तत्र पूर्वापरानुरोधेन सङ्गतः पाठ उपन्यस्तः। यथा ४३८८तमगाथायां प्रतिषु 'संसइओ य' इति प्रमाददोषजन्यः पाठो विद्यतेऽतः कल्प्यते मूलादर्शप्रतिषु एतादृशः पाठः स्यात्। १.बृहत्कल्पसूत्रम्। सं.परमपूज्यप्रवर्तकश्रीचतुरविजयमुनिप्रवरश्रीपुण्यविजयौ प्र.जैन आत्मानन्द सभा, भावनगर। (१६)
SR No.007786
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 01
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages504
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy