SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ यत्र अकारस्याकारेणाऽकारेण वा सन्धौ सत्यामर्थसन्देहो भवति तत्रावग्रहचिह्नं न्यस्तमस्ति। यथा भासाऽसमिई ४४५३ इत्यत्र। ____ अत्राशुद्धत्वेनोपलक्षितः पाठः सम्माय॑ तत्रैव वृत्ताकारे () कोष्ठके शुद्धः पाठो दर्शितः। यत्रापि च पाठे स्वल्पोऽपि सन्देहः तत्र प्रश्नचिह्नं कृतम्। लिपिकृतोऽनवधानादिना भ्रष्टः पाठः चतुष्कोणे [ ] कोष्ठके, पुनरावृत्तश्च पाठः धनुराकारे { } कोष्ठके न्यस्तः। सर्वथा सन्दिग्धाः पाठा अधोरेखयाङ्किताः। अवलोकनम् काश्चन गाथाः विशेषचूर्णिकृता निर्युक्तौ गणिताः, वृत्तिकृता तु भाष्ये गणिताः। यथा—४१५१तमा गाथा विशेषचूर्णिकृता निर्युक्तौ गणिता, वृत्तिकृता तु भाष्ये गणिता। एवं ३०८३तमगाथापि। सम्पादनेऽस्मिन् चूर्णिकृतां विवक्षैव प्रमाणीकृता। चूर्णिकृत्सम्मतभाष्यगाथानां मलयगिरिसूरिवृत्तिसम्मतभाष्यगाथानां क्रमे कुत्रचित् भेदो दृश्यते। यथा- १३६१, १३६२, १३६३। १८७९तमगाथायाः टीप्पण्यां सम्पादकैः क्रमभेदः सम्भावितः सोऽस्मत्समीपवर्तिनीषु प्रतिषु नोपलभ्यते। व्याख्यानपद्धतिदृष्ट्या चूर्णेत्तेश्च महान् भेदो वर्तते। वृत्तिः प्रत्येकेषां पदानां वर्तते। चूर्णी एवं नास्ति। चूर्णिः सर्वासां गाथानां न भवति। व्याचिख्यासितानां गाथानां चूर्णिकारः प्रतीकं ददाति। बृहत्प्रमाणत्वाद् हस्तप्रतौ भाष्यपाठो न वर्तते। चूर्णिकृता यासां गाथानां व्याख्या न कृता यासां वा प्रतीकानां उद्धारो न कृतः ताः गाथाः अत्र सम्पादने चतुरस्रे कोष्टके न्यस्ताः। तेन चूर्णेमूलपाठो यथातथ उपलप्स्यते पाठकानां च सौकर्यं भविष्यति। चूर्णिकर्तुर्व्याख्याशैली अपि विशिष्टा वर्तते। पूर्वं क्वचिद् अस्मिन् ग्रन्थे ग्रन्थान्तरे वा कृतस्य व्याख्यानस्यात्रानुसन्धानम् ईप्सितं भवति तत्र विभासाशब्दस्य प्रयोगः क्रियते। चूर्णिकृता बहुषु गाथासु केवलं कण्ठ्या इत्येवोक्तम्। यत्र च एकाधिकगाथानां व्याचिख्यासा तत्र गाहाद्वयम्, गाथात्रयं वा इति उक्तम्। अत अन्याः गाथाश्चूर्णिकृत्समक्षमासन्न वा इति निर्णयः कर्तुं न पार्यते। विशेषतः कथानिरूपिकानां गाथानां प्रतीकानि चूर्णौ न दृश्यन्ते। गाथायां चूर्णौ च यत्र श्रुतिभेद उपलभ्यते(य, अ, इ, त) तस्मिन् किमपि परिवर्तनं न कृतम्। भाष्यस्य श्रुतयो मुचानुसारिण्यः सन्ति। चूर्णौ श्रुतयो यथातथमेव रक्षिताः। यथा १७८७तमायां गाथायां मुद्रितपुस्तके भूया कोलिग इति यश्रुतिप्रधानो गश्रुतिप्रधानश्च पाठ उपलभ्यते। चूर्णी उपलभ्यमानेषु गाथाप्रतीकेषु च भूता कोलिय इति तश्रुतिप्रधानो यश्रुतिप्रधानश्च पाठ उपलभ्यते। श्रुतिभेदवशाच्च भाष्यस्याकारादिक्रमोऽपि प्रभावितो भवेदिति अवधेयं पाठकैः। (१७)
SR No.007786
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 01
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages504
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy