________________
कासाञ्चित् भाष्यगाथानाम् उल्लेखः चूर्णी उपलभ्यते किन्तु वर्तमानभाष्ये ता न उपलभ्यन्ते उदाहरणम्-२८६२, २९११। एतासां सूचिः तृतीये परिशिष्टे वर्तते।
विशेषचूर्णौ पूज्याचार्यश्रीमलयगिरिसूरिवृत्तौ च क्वचित् पाठभेदः क्वचिच्चार्थभेदोऽपि उपलभ्यते। अर्थभेदस्य उदाहरणानि
१) २५०८तमगाथायां चूर्णी संदूरेपदस्य नाइदूरे इत्यर्थः कृतः, वृत्तिकृता तु सिन्दूरद्रव्यम् इत्यर्थः कृतः।
२) चारप्रकृते २७३५तमगाथायां वर्षारात्रस्य चूर्णिकृता कृतोऽर्थः भाद्रपदाश्वयुनासौ, वृत्तिकृता कृतोऽर्थोऽश्वयुक्कार्तिकमासौ। एवमन्यत्रापि २४६३ इत्यादिषु। पाठभेदस्य उदाहरणानि
१) २०३६तमगाथायां विशेषचूर्णौ बाहिमुवस्सय इति भाष्यपाठः, वृत्तौ पुनः अण्णउवस्सय इति पाठः।
२) २३४३तमगाथायां विशेषचूर्णी मोत्तूण इति पाठः, वृत्तौ पुनः सोऊण इति पाठः। अत्र पाठभेदवशादर्थभेदो भवति। ___३) एवं २३८८तमगाथायां विशेषचूर्णौ दड्ढूण पडि इति पाठः, वृत्तौ पुनः दट्ठण वा इति पाठः। अत्रापि पाठभेदवशादर्थभेदो भवति।
४) ३२७१तमगाथायां विशेषचूर्णौ सिक्ख इति पाठः, वृत्तौ पुनः दिक्ख इति पाठः। अत्रापि पाठभेदवशादर्थभेदो भवति।
५) ३६१८तमगाथायां विशेषचूर्णी अइसेसे इति पाठः, वृत्तौ पुनः विसेसे इति पाठः। प्रायश्चित्तभेदस्य उदाहरणानि
३१५२तमगाथायां विशेषचूर्णौ चतुर्गुरु प्रायश्चित्तं पूज्याचार्यश्रीमलयगिरिसूरिवृत्तौ पुनः मासगुरु। एवमन्यत्रापि ४२७२, ४४४४, ४५६३, ४९०२ इत्यादिषु। परिशिष्टानि
प्रथमे परिशिष्टे कल्पसूत्रस्य शब्दकोशः नवसुत्ताणि (सं. युवा महाप्रज्ञ) पुस्तकादुद्धृत्य संयोजितः।
द्वितीये परिशिष्टे भाष्यगाथानामकारादिक्रमः प्रस्तुतः। अत्र भाष्यगाथानां पाठः क्रमश्च विशेषचूर्णिकृतां वाचनानुसारी वर्तते। मुचपुस्तके आचार्यश्रीमलयगिरिसूरिवृत्तिसम्मतः पाठो वर्ततेऽतः तत्र भेदः स्वाभाविक एव।
(१८)