SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ तृतीये परिशिष्टे यासां भाष्यगाथानाम् उल्लेखो विशेषचूर्णी उपलभ्यते किन्तु वर्तमानभाष्ये ताः न उपलभ्यन्ते तासां सूचिर्वर्तते। चतुर्थे परिशिष्टे विशेषचूर्णी उपलब्धानां विशेषनाम्नां विभागशः सूचिर्वर्तते। पञ्चमे परिशिष्टे विशेषचूर्णी उपलब्धानाम् एकार्थकशब्दानां सूचिर्वर्तते। षष्ठे परिशिष्टे विशेषचूर्णी उपलब्धानां व्याख्यानां सूचिर्वर्तते। सप्तमे परिशिष्टे विशेषचूर्णी उपलब्धानामवतरणानां सूचिर्वर्तते। अष्टमे परिशिष्टे विशेषचूर्णी उपलब्धानां देश्यादिनाम्नां सूचिर्वर्तते। नवमे परिशिष्टे विशेषचूर्णौ पुरस्कृतानां दृष्टान्तानां सूचिर्वर्तते। दशमे परिशिष्टे आचार्यश्रीमलयगिरिसूरिवृत्तौ यत्र यत्र विशेचूर्णरुल्लेख उपलभ्यते तस्य सूचिर्वर्तते। एकादशे परिशिष्टे सम्पादनेऽस्मिन् प्रयुक्तानां सङ्केतानां सूचिर्वर्तते। द्वादशे परिशिष्टे सम्पादनेऽस्मिन् प्रयुक्तानां सन्दर्भग्रन्थानां सूचिर्वर्तते। कृतज्ञताभिव्यक्तिः __ प्रस्तावेऽत्र परमगुरुचरणानां परमपूज्यपादानामाचार्यदेवश्रीमद्विजयरामचन्द्रसूरीश्वराणाम्, पितृगुरुदेवानां परमपूज्यमुनिप्रवर-श्रीसंवेगरतिविजयानाम्, सर्वेषां विद्यागुरूणामनन्तोपकारान् स्मरन् बद्धाञ्जलिराशिषो याचते, बन्धुमुनिवरस्य श्रीप्रशमरतिविजयस्य परमपूज्यसाध्वीवर्याश्रीहर्षरेखाश्रीशिष्या-साध्वीश्रीजिनरत्नाश्री-साध्वीश्रीमधुरहंसाश्रीसाध्वीश्री-धन्यहंसाश्रीणां श्रुतभवनसंशोधनकेन्द्रवर्तिनां कार्यसम्पादकानां च निरन्तरं निरपेक्षं च साहाय्यं समुपद्व्हतेऽयं जनः। __ तदेवं विशेषचूर्णियथामति सम्पाद्यात्र प्रस्तुता विदुषां बोधवृद्ध्यै बोधिशुद्ध्यै च सम्पद्यन्तामिति शुभमभिलषन् सम्पादनेऽस्मिन् दृश्यमानाः छद्मस्थसुलभाः क्षतयो विद्वांसः सम्मायन्ति निर्देक्ष्यन्ति चेति निवेदयँश्च विरमति परमगुरुवराचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां विनेयान्यतमः पितृगुरुमुनिप्रवर-श्रीसंवेगरतिविजयानामनुजस्य मुनिप्रवरश्री-प्रशमरतिविजयस्य च सतीर्थ्यः -वैराग्यरतिविजयः वैक्रमीये द्वासप्तत्यधिके द्विसहस्रतमेऽब्दे कार्तिकशुक्लैकादशीतिथौ श्रुतभवने। (१९)
SR No.007786
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 01
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages504
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy