________________
पूज्याचार्यश्री शीलचन्द्रसूरिवराः कुर्वन्ति, बृहद्भाष्यं च अल्पेनैव कालेन प्रकाशयिष्यते।
परमपूज्यप्रवर्तकश्रीचतुरविजयमुनिवरप्रवरश्रीपुण्यविजयैः पूज्याचार्यश्रीमलयगिरिसूरिभिः आरब्धा पूज्याचार्यश्री-क्षेमकीर्तिसूरिप्रपूरिता व्याख्या सम्पाद्य प्रकाशिता। तत्र च टीप्पण्यां चूर्णेर्विशेषचूर्णेश्च पाठोऽपि तत्र तत्र न्यस्तः। वृत्तिरेषा स्फुटा प्रत्येकपदव्याख्यानरूपा च बृहत्कल्पभाष्यावबोधे साधकतमा चास्ति। अधुना तु सर्वत्र वृत्तिरेवैषा वाचनादावुपयुज्यते। अतः पठनपाठनवाचनादौ यद्यपि चूर्णेः, विशेषचूर्णेः, बृहद्भाष्यस्य चोपयोगो नास्ति तथापि चूर्णिसाहित्यस्य विशिष्टा संस्कृत-प्राकृतविमिश्रिता भाषा अपि भाषाशास्त्रीयाध्ययनार्थं समाजशास्त्राध्ययनार्थं चोपयुक्ततमा वर्तत इत्यतोऽपि सम्पादनमावश्यकम्। सम्पादनसामग्री___ विशेषचूर्णेः सम्पादने पञ्च हस्तप्रतय उपयुक्ताः सन्ति। सर्वाः प्रतयः कर्गजस्य सन्ति। सम्पादनं प्रधानतया अ-ब-सञ्ज्ञकप्रतद्वयमुपयुज्य कृतमस्ति। सर्वासां प्रतीनां सज्ञा-परिचयोऽत्र दत्तोऽस्ति। सर्वासां प्रतीनां मृदुप्रतयः(softcopies) प्राप्ता अतस्तेषामाकारादिविषयेऽत्रोल्लेखो नास्ति। सर्वासां लिपि देवनागरी एवास्ति अतः तस्योल्लेखः सर्वत्र कृतो नास्ति। हस्तप्रतीनां परिचयः अ-सज्ञिकायाः प्रतेर्बहिरङ्गपरिचय:___ प्रतिरेषा अणहिलपुरपत्तननगरस्थहेमचन्द्राचार्यजैनज्ञानमन्दिरहस्तप्रतभाण्डागारतः प्राप्ता। तत्र सूचिपत्रे तस्याः क्रमाङ्कः –१००४० अस्ति।(पाकाहेम) अस्यां प्रतौ द्वापञ्चाशदधिकशतपत्राणि (folios) वर्तन्ते। प्रतिपत्रस्य प्रत्येकस्मिन् पृष्ठे पञ्चदश पङ्क्तयः, प्रतिपक्तौ षडशीति अक्षराणि सन्ति। प्रतिरेषा पूर्णास्ति तथा स्थितिः श्रेष्ठा सुवाच्या चास्ति। लेखनं शुद्धमस्ति।
मङ्गलवाक्यम्- ॐ नमः सर्वज्ञाय॥ अन्तपुष्पिका- शुभं भवतु॥ मंगलमस्तु॥ सर्वसाधूनां॥छ॥छ॥छ॥छ॥
लेखकलेखनकालयोनिर्देशो नास्ति। सामान्यतो या पद्धतिरुपयुज्यते पत्रक्रमाङ्कस्य सैवात्रोपायोजितास्ति। पत्रस्य बभागे उभयतो दक्षिणवामभागेऽनुक्रमेण ऊर्ध्वाधोभागे पत्रक्रमाको दत्तोऽस्ति। तथा दक्षिणोद्धे भागे प्रतिपत्रं विशे।कल्पाचू। इति सक्षेपतो नामोल्लेखोऽस्ति कृतेः।
१. सम्पादनेऽत्र सम्पादकीये च यत्र मलयगिरीयवृत्तेरुल्लेखो वर्तते तत्र सर्वत्र पूज्याचार्यश्रीमलयगिरिसूरिभिरारब्धा पूज्याचार्यश्रीक्षेमकीर्तिसूरिप्रपूरिता व्याख्या ज्ञेया।
(१२)