________________
सम्पादकीयम्
कृतिपरिचय:
विदितमेवैतद् विदुषां यन्नवमात् प्रत्याख्यानप्रवादपूर्वात् षट् छेदसूत्राणि चतुर्दशपूर्वधरैः श्रीमद् भद्रबाहुस्वामिपादैनिढूँढानि इति। तेषु बृहत्कल्पेत्यपरनाम कल्पसूत्रमन्यतमत्।
। प्रायश्चित्तविषयकस्यास्य सूत्रस्य चत्वारि व्याख्यानानि उपलभ्यन्ते। प्रथमं नियुक्तिरूपम्, द्वितीयं भाष्यरूपम्, तृतीयं चूर्णिरूपम्, चतुर्थं च वृत्तिरूपम्। तत्र नियुक्तेर्रचना चतुर्दशपूर्वधरैः सूत्रकारैः श्रीमद्भिः भद्रबाहस्वामिभिः कृतेति परम्परागतं शीलाङ्काचार्यादिसमर्थितं मतम्। आगमप्रभाकरमुनिवर्यश्री पुण्यविजयानां मतेन तु नियुक्तिकृतो भद्रबाहुस्वामिनः सूत्रकृतो भिन्ना द्वितीयशतकवर्तिनः। सम्पादनविषयः
कल्पसूत्रस्य द्वौ भाष्यौ, द्वे चूर्णी चोपलभ्यन्ते। प्राचीनं नियुक्तिसहितं साधिकषटसहस्रश्लोकप्रमितं लघुभाष्यम्। द्वितीयं तु स्वतन्त्रम् अर्वाचीनम् ७६७६(षट्सप्तत्यधिकषट्सप्ततिशत)गाथाप्रमाणम् बृहद्भाष्यमिति प्रसिद्धम्। बृहद्भाष्यस्य रचना चूर्णिद्वयरचनानन्तरं जातेति। चूर्णिरिति आगमानां गद्यरूपः प्रथमो व्याख्याप्रकारः संस्कृतप्राकृतभाषानिबद्ध इति। अंशव्याख्यानरूपत्वेन चास्य चूर्णिरिति सज्ञेति वदन्ति। नियुक्तिभाष्ययोः पद्यशैली विहायैदम्प्राथम्येन गद्यरूपा व्याख्यानशैली चूर्णौ दृश्यते।
प्राचीनस्य लघुभाष्यस्योपरि द्वे चूर्णी वर्तेते। प्राचीना चूर्णिः केवलं चूर्णिनाम्ना प्रसिद्धा अन्या च भेदोपदर्शनार्थं विशेषचूर्णिरिति नाम्ना प्रसिद्धा। सैषा प्राचीनमहत्तराचार्यविरचिता विशेषचूर्णिरत्र सम्पादयिषिता। सम्पादनप्रयोजनम्
बृहत्कल्पलघुभाष्यस्य प्राचीनतमानि त्रीणि व्याख्यानानि विद्यन्ते। चूर्णिः, विशेषचर्णिः, बृहद्भाष्यं च। एतत्त्रयमपि अद्यावधि अप्रकाशितं वर्तत इत्यतो विशेषचूर्णिः सम्पाद्यते। चूर्णेः सम्पादनं
१. एतेन इतः पूर्वमस्मत्सम्पादिते पुस्तके नियुक्तिरचनासमयः सप्तममष्टमं वा शतकमिति लिखितं तदनवधानवशादिति ज्ञेयम्। तदर्थं क्षन्तव्योऽयंजनः। २. अप्रकटमेतच्चाल्पेनैव कालेन प्रकाशयिष्यते।