Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ स्तबकः ] कल्पलतावतारिका [ 267 नोपचारात् / अर्थस्तु विजातीयव्यावृत्तत्वाद् मुख्यतस्तव्यपदेशभाक् / प्रसज्यप्रतिषेधस्तु गौरगौन भवत्ययम् / इति विशिष्ट एवायमन्यापोहोऽवगम्यते / तत्रार्थप्रतिबिम्बात्माऽपोहः शब्दजन्यत्वात् साक्षात् शब्यवाच्यः, शब्दार्थयो: कार्यकारणभाव एव च याच्यवाचकभावः, तदुक्तम् न तदात्मा परात्मेति, सम्बन्धे सति वस्तुभिः / व्यावृत्तवस्त्वधिगमोऽप्यर्थी देव भवत्यत: // 1 // एतेन यदुक्तं कुमारिलभट्टन नन्वन्यापोहकृच्छब्दो, युष्मत्पक्षे तु वर्णितः / निषेधमात्रतेवेह , प्रतिभासेऽवगम्यते // 1 // किन्तु गौर्गत्रयो हस्ती, वृक्ष इत्यादि शब्दतः / विधिरूपावसेयेन, मतिः शाब्दी प्रवर्तते // 2 // यदि गौरित्ययं शब्दः, समर्थोऽन्यनिवर्तने / जनको गवि गोबुद्धेम॒ग्यतामपरो ध्वनिः // 3 // ननु ज्ञानफलाः शब्दा; नचैकस्य फलद्वयम् / अपवादविधिज्ञानं, फलमेकस्य वः कथम् // 4 // प्रागगौरितिविज्ञानं , गोशब्दश्रावणे भवेत् / येनागो: प्रतिषेधाय, प्रवृत्तो गौरितिध्वनिः // 5 // तदपास्तम्-प्रागर्थप्रतिबिम्बरूपविध्यर्थस्यैवावसायात् , अन. न्तरश्च सामर्थ्यतो निषेधप्रतीति:, एकस्यापि रात्रिभोजननिषेधार्थापकदिवाभोजनवत् क्रमिक विधिनिषेधज्ञानद्वयफलकत्वाविरोधात् / / / यद्यपि च तेनैवोक्तम् - अगोनिवृत्ति: सामान्यं, वाच्यं यत्परिकल्पितम् / गोत्ववस्त्वेव नैरुक्तमगोऽपोहगिरा स्फुटम् // 1 //

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322