Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ स्तवकः ] कल्पलतावतारिका [ 275 समवाये पूर्णता ? इति चेन्न प्रत्येकमपि ज्ञानक्रिययोर्द्वयोरन्वयव्यतिरेकानुविधानाविशेषेण हेतुत्वात , असम्यग्ज्ञाने फलव्यभिचारस्य चासम्यक् क्रियायामपि तुल्यत्वादिति भावः / ज्ञानक्रिययोरपि निश्चयेन ज्ञानक्रियाव्यपदेशात् , फलानुपहितस्य सतोऽकारणत्वात् , कुशूलस्थबीजाबीजयोरविशेषात् , कारणस्य च सत: फलोपहितत्वात् क्षेत्रस्थबीजवत् / तथा चाभियुक्ताः साध्यमर्थं परिज्ञाय, यदि सम्यक् प्रवर्तते / ततस्तत् साधयत्येव, तथा चाह वृहस्पतिः // 1 // सम्यक् प्रवृत्तिः साध्यस्य प्राप्त्युपायोऽभिधीयते / तदप्राप्तावुपायत्वं न तस्या उपपद्यते // 2 // असाध्यारम्भिणस्तेन सम्यगज्ञानं न जातुचित् / साध्यानारम्भिणश्चेति द्वयमन्योन्यसङ्गतम् // 3 // अत एवाऽऽगमज्ञस्य या क्रिया सा क्रियोच्यते / आगमज्ञोऽपि यस्तस्यां यथाशक्ति प्रवर्तते // 4 // प्रज्ञापनासूत्रे तीर्थादिभेदात् पञ्चदशविधाः सिद्धाः प्रज्ञप्ताः, तद्यथा-तीर्थसिद्धाः, अतीर्थसिद्धाः, तीर्थकरसिद्धाः, अतीर्थकरसिद्धाः, स्वयंबुद्धसिद्धाः, प्रत्येकबुद्धसिद्धाः, बुधबोधितसिद्धाः, स्त्रीलिङ्गसिद्धाः, पुरुषलिङ्गसिद्धाः, नपुंसकलिङ्गसिद्धाः, स्वलिङ्गसिद्धा, अन्यलिङ्गसिद्धाः, गृहिलिङ्गसिद्धाः, एकसिद्धाः, अनेकसिद्धाः (15) इति / तत्र तीर्थे चतुर्वर्णश्रमणसंघरूपे वोत्पन्ने सति सिद्धास्तीर्थसिद्धाः, तीर्थस्याभावेऽनुत्पत्तिलक्षणे आन्तरालिकव्यवच्छेदलक्षणे वा सति सिद्धा अतीर्थसिद्धा मरुदेव्यादयः, सुविधिस्वाम्याद्यपान्तराले बिरज्याप्तमहोदयाश्च /

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322