Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 314
________________ अथ कृतिकृतू प्रशस्तिः [1] सिंहाको जन्मतोऽभूत सुरगिरिशिखरं स्नात्रकालेऽधवद् ओ, देवं मिथ्यात्विनं यो वरकरहनना-नामयामास बाल्ये / एवं मोहं मृगाभं मृगपतिरिव यः संजघानाप बोध, तं श्रीवीरं स्तवीमः सततविततसद्-बोधिबोधाय सिद्धम् // [2] पट्टे वीरजिनस्य पञ्चमगणी, स्वामी सुधर्माभिधो, जम्बूस्वामियमीश्वरः समभवत् , तत्पट्टभृन्मुक्तिवृत् / स्वामी श्रीप्रभवस्ततस्ततयशाः, शय्यंभवः पट्टमा, इत्येवं बहवो जिनेशवचन-व्याख्याकरा जज्ञिरे // .. [3] अष्टौ निर्ग्रन्थ नाम्नि प्रथमत उद्विताः सूरिराजोऽत्र गच्छे, रेजुः श्रीकोटिगच्छे तदनु मुनिमिताः सुस्थिताद्या मुनीन्द्राः / सूरिश्चन्द्र स्फुरद्भा-नुरजनि रजनीकान्तवञ्चन्द्रगच्छे, सामन्ताचार्यमुख्या अजनिषत वना-द्वासिगच्छे दश द्विः // . [4] गच्छेऽष्टौ वटनाम्नि धाम्नि महसां, श्रीसर्वदेवादयो, जाग्रत्तेजसि सद्यशोऽम्भसि तपा-गच्छे जगच्चन्द्रतः / श्रीसोमप्रभ-सोमसुन्दर-मुनि श्रीहीर-देवादयोऽनेके धर्मधुरन्धराः शुशुभिरे, श्रीवृद्धिचन्द्रास्ततः / /

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322