Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 297
________________ 272 ] शास्त्रवातासमुच्चयस्य [ एकादशः शात् , शक्तिलक्षणान्यतरत्वेन प्रयोजकत्वापेक्षया शक्तित्वेनैव तत्त्वोचित्याच्च / नचैवं समयस्य क्षयोपशमार्थत्वे सर्वत्र गलितावरणानां योगिनां वाचकप्रयोगार्थं तदपेक्षा न. स्यादिति वाच्यम् इष्टत्वात् समयापेक्षणं विनैव स्वयमेव योगिनां वाच्यवाचकभावं ज्ञात्वा वाचक. प्रयोगात् / एवञ्च बौद्धपरिकल्पितस्यापोहस्य वाच्यत्वं युक्त्या नोप. पद्यते, वस्तुभिन्नतया तस्याऽसत्वात् , विजातीयव्यावृत्तेरपि समानपरिणतिरूपतया वस्तुवाच्यत्वपक्षप्रसङ्गात्, तुच्छस्य वस्तुना सम्बन्धायोगात् , विकल्पबुद्धचभिन्नस्यापि तस्यापोहम्य भेदेनासत्त्वादद्वयबोधात् / अपि च लिङ्गसंख्यादियोगोऽप्यनन्तधर्मात्मकबाह्यवस्तुसमाश्रित एवेति नापोहस्य वाच्यत्वम् , एकत्र स्त्रीपुन्नपुंसकाख्यभाव. त्रयस्य, एकत्व द्वित्वादिसंख्यायाश्चाविरोधात्, यथाविवक्षितमनन्तधर्माध्यासिते वस्तु न कस्यचिद्धर्मस्य केनचिच्छब्देन प्रतिपादनात् , प्रतिनियतीपाधिविशिष्ट वस्तुप्रतिभासस्य प्रतिनियतक्षयोपशमविशेषनिमितत्वेन शबलाभासानापत्तेः / अपि च शब्दस्य बहिरर्थाप्रतिपादकत्वे. ऽदृष्टेषु नदीदेशपर्वतद्वीपादिष्वाप्तप्रणीतत्वेन निश्चिताच्छब्दात् प्रतिपत्तिर्न स्यात् , अदृष्टे विकल्पानुपपत्तेरिति विस्तरेण स्याद्वादकल्पलतायामाकलनीयम् / अथ "ज्ञानक्रियाभ्यां मुक्तिः" इत्यत्र नयमतजनितं वार्तान्तरमुत्थापयति( शास्त्रवार्ता) ज्ञानादेव नियोगेन, सिद्धिमिच्छन्ति केचन / अन्ये क्रियात एवेति, द्वाभ्यामन्ये विचक्षणाः॥३०॥

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322