Book Title: Kalpasutram Author(s): Bhadrabahuswami, Shantisagar Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha View full book textPage 3
________________ श्रीकल्पकौमुद्यां ॥ १ ॥ श्रीकल्पकौमुद्या उपक्रमः कल्पकर्षणकालः–विदितचरमेव विद्वद्वृन्दस्यैतद् यदुत प्रति पर्युषणां जैनानां वाचंयमानामनागतं पञ्चरात्रं श्रीपर्युषणाकल्पस्य कर्षणं सनातनं जायते, यद्यपि च तत्कर्षणं पर्युषणया संबद्धं परं पूर्वधरकाले तद् अवस्थानरूपपर्युषणया संबद्धमासीत्, पूर्वधरकाले आनंदपुरीयमूलगृहचैत्यं वर्जयित्वा न दिवसे च तस्य कर्षणं, परं श्रीभवविरहसूरिसत्ताकालात् प्राक् कल्प| कर्षणं सांवत्सरिकेण संबद्धमभवदिति सांवत्सरिकप्रतिक्रमणसामाचारीं दर्शयद्भिस्तैः सूरिभिः सूचितं, एवं च श्री हरिभद्रसूरिभ्यः पश्चादेव कस्मिंश्चित् काले कल्पस्य दिवसे सकलसंघसमक्षं च वाचनं जातमिति निस्संदिग्धं, उपक्रमः ॥ १ ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 246