Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीकल्पकौमुद्यां १क्षणे
॥ ९ ॥
सन्तोषो न कर्त्तव्यो, यतो यथावसरमेव सकलसामग्री एवं बहुफलदायिनी, यतः कृषिकारणमपि केवलं बीजं पृथिवीवृष्टिसुवायुसामग्रीं विनापि सर्वथाऽङ्कुरादिफलदायकं न भवति, तथाऽयमपि कल्प इति ।।
अथ पुरुषविश्वासाद्वचनविश्वासस्तेनास्य कल्पसूत्रस्य कर्त्ता तु चतुर्दशपूर्वधरः युगप्रधानः श्रीभद्रबाहुस्वामी दशाश्रुतस्कन्धस्याष्टमाध्ययनतया प्रत्याख्यानप्रवाद नामकनत्रमपूर्वात् कल्पसूत्रमुद्धृतवान् तत्र पूर्वाणि चानुक्रमेण स्स्थानद्विगुणितेन हस्तिप्रमाणमपीपुञ्जेन लेख्यानि, यथा- प्रथममेकेन द्वितीयं द्वाभ्यां तृतीयं चतुर्भिर्यावत् चतुर्दशं द्विनवत्यधिकशताधिकेनाष्टसहस्रेण, | सर्वाण्यपि पूर्वाणि त्र्यशीत्यधिकैस्त्रिभिः शतैः षोडशमिव सहस्रैः हस्तिप्रमाणमपी पुञ्जर्लेख्यानि । यन्त्रकस्थापना यथा२ ३ ४ ५ ६ ७ ९ १० ११ १२ १३ १४
.............AMARINAME
ह. १ २ ४ ८ १६ ३२ ६४ | १२८ | २५६ | ५१२ १०२४ २०४८/४०९६८१९२ ततो महापुरुषो वेन महागम्भीरार्थः सर्वमान्यश्च यतः सर्वनदीनां वालुकाभ्यः सर्वसमुद्रजलेभ्यश्चानन्तगुणोऽर्थः कल्पस्येति ।। तथा अस्य कल्पस्य वाचने रात्रौ कृतकालग्रहणादियोगानुष्ठानः साधुरधिकारी, अन्ये तु साधवः शृण्वन्ति, साध्वीश्रावणे तु निशीथचूर्णिप्रोक्तविधिना दिवसेऽपि तयोरधिकारः, तथा महावीरमोक्षानवशताशीति९८० वर्षे वाचनान्तरे तु नवशतत्रिनवतिवर्षे च ध्रुवसेनराजस्य पुत्रमरणशोकनिवारणार्थं आनन्दपुरे वडनगरापरनामनि सभायां महोत्सवपूर्वकं श्रीकल्पो वाचितः, तदनु चतुविधसङ्घोऽपि श्रवणेऽधिकारी, वाचने तु पूर्वोक्तः साधुरेव ।
w
पूर्वमानं कल्पवाचना च
॥ ९ ॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 246