Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 17
________________ श्रीकल्पकौमुद्यां १क्षणे ॥११॥ ( | यौवनस्थोऽपि जितेन्द्रियो महाश्रावको जातः, अथान्यदा कश्चित् पुरुषश्चौरकलङ्कतो राज्ञा हतो व्यन्तरो जातः, ज्ञानेन स्वसम्बन्धं | Vवाच्यत्रयी ज्ञात्वा रोषाद्राजानं पादप्रहारेणाहत्य रुधिरं वमन्तं भूमौ पातयामास, नगरोपरि च महतीं शिलां विकृतवान् , नागकेतुना तु जिनप्रा| सादप्रतिमापुस्तकसङ्घादिरक्षार्थ प्रासादशिखरे स्थित्वा पतन्ती शिला हस्तेन धृता, व्यन्तरोऽपि तत्तपःप्रभावतः शिलां संहृत्य नागकेतुं प्रणम्य तद्वचनेन राजानं च सज्जीकृत्य स्वस्थानं गतः, एकदाच जिनप्रासादे पूजां कुर्वन् पुष्पमध्यस्थसर्पण दष्टोऽपि निश्चलः शुभध्यानेन केवलज्ञानं प्राप्तः, शासनदेवीप्रदत्तमाधुवेपश्चिरकालमनेकभव्यजीवान् प्रतिबोध्य मोक्षं गतः । एवमन्यैरपि अष्टमः करणीयः, इति नागकेतुकथा । इति श्रीकल्पकौमुद्यां कल्पसूत्रव्याख्यानपीठिकारचना । अथास्मिन् कल्पे त्रयोऽधिकाराः वाच्याः सन्ति, यथापुरिमचरिमाण कप्पो मंगलं वद्धमाणतित्थंमि । इह परिकहिया जिण गणहराइथेरावलि चरित्तं ॥१॥ पुरिमः-प्रथमः चरिमः-पश्चिमः तयोः ऋषभवीरयोस्तीर्थे वृष्टिर्भवतु मा वा परं द्विविधापि पर्युषणा निश्चयेन कर्त्तव्येत्येष कल्प:आचारो, यस्मात् कारणाद् वर्द्धमानस्वामितीर्थे मङ्गलं वर्त्तते तस्मादिह कल्पे परिकथितानि जिनानां चरित्राणि१ गणधरादिस्थविरावली२ चारित्रं-वर्षासामाचारी३ चेति । तत्रासन्नोपकारित्वेन वर्तमानतीर्थनाथस्य बर्द्धमानस्वामिनः पञ्चकल्याणकबन्धनिबद्धं चरित्रं वर्णयन्तो जघन्यमध्यमवाचनया श्रीभद्रबाहुस्वामिपूज्याः प्रथमं सूत्रं रचयन्ति । ___ अत्र च श्रुतस्कन्धस्यादौ प्रायः परमेष्टिनमस्कारस्य वक्तव्यत्वात् न त्वध्ययनस्यादौ, येनेदमध्ययनं अतो नास्यादौ तस्यावश्य| भाव इति । तत्र (तेणं कालेणं) तस्मिन् काले-अवसर्पिण्याश्चतुर्थारकपर्यन्तलक्षणे, 'णकारो' वाक्यालङ्कारे, एवं सर्वत्र ज्ञेयं ।। ॥११॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 246