Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
क्षेत्रगुणाः
श्रीकल्पकौमुद्यां १क्षणे
ननु ऋजुप्राज्ञानां निरतिचारचारित्रबचाद्भवतु चारित्रं, ऋजुजडानां वक्रजडानां पुनः कथं चारित्रं ?, सदोषत्वादिति चेन्मेवं, | यतः ऋजुजडानां जडत्वेन सदोषत्वेऽपि भावस्य शुद्धत्वाच्चारित्रमुक्तं, वक्रजडानामपि पूर्वसाध्वपेक्षया नृपगोपवृक्षवृषभपुष्करिणीदृष्टान्तेन हीनहीनतरक्रियापरिणामत्वेन चारित्रमुक्तं तीर्थकृद्भिः, अन्यथा चारित्राभावे तीर्थाभावापत्तेरिति ॥ ____ अथ यः सप्ततिदिनमानपर्युषणाकल्पो निश्चितावस्थानरूपः कथितः सोऽपि कारणं विना, उपद्रवदुर्लभभिक्षादुष्टराजरोगोत्पत्तिस्थ| ण्डिलाभावकुन्थ्वादित्रसजीवोत्पत्तिवसत्यभावसाग्निभयादिकारणे तु सप्तति७०दिनमध्येऽपि गन्तुं कल्पते, एवमुपद्रवाद्यभावेऽपि संयमनिर्वाहकास्त्रयोदश क्षेत्रगुणा विलोक्याः, ते च यथा-यत्र भूयान् कर्दमो न भवति१ यत्र बहवः सम्मूच्छिमाः प्राणा न२ यत्र स्थण्डिलभूमिदोषरहिता३ यत्र वसतिः स्त्रीपशुदोषरहिता४ यत्र गोरसः प्रचुर.५ यत्र बहुजनसमुदायोऽतीवभद्रकः६ यत्र वैद्या भद्रकाः७ यत्रौषधानि सुलभानि८ यत्र कुटुम्बयुक्तगृहस्थगृहाः धनधान्यभृता बहवश्व९ यत्र राजाऽतीवभद्रकः१० यत्र ब्राह्मणतापसभरटकादिभ्यः साधूनां पराभवो न११ यत्र मिक्षा सुलभा१२ यत्र स्वाध्यायः सुलभो१३ भवतीति त्रयोदशगुणान्वितं उत्कृष्टं क्षेत्रं, तथा प्रासादः सुलभः१ स्वाध्यायः सुलभः२ भिक्षा सुलभा३ स्थण्डिलभूमिः मुलभेति४ चतुर्गुणान्वितं जघन्य क्षेत्रं, त्रयोदशगुणन्युनं चतुर्गुणाधिकं मध्यमं क्षेत्रमिति । ____ अथायं कल्पः उत्सूत्रादिदोषाभावे क्रियमाणस्तृतीयौपधमिव हितकर्ता भवति, तच्चैवं केनचिद्राज्ञा एकस्यैव स्वपुत्रस्यानुत्पन्न
रोगचिकित्सार्थ त्रयो वैद्या आकारिताः, तेषु प्रथमो ममौषधं वर्तमानरोग निवारयति, रोगाभावे तु नवीनं रोगं करोतीति जल्पन् | राजा निवारितः, सुप्तसिंहोत्थापनसदृशनेनानेन सृतं, द्वितीयो ममौषधं वर्तमानं रोगं निवर्तयति, रोगाभावे तु न गुणं न च दोष
CHATANAMAHARASHTRAIPURIHITARIANDPARIHALA AURIHIBIHINine
SHAHIRAIMIMASTRAILER
HIPPI

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 246