Book Title: Kalpasutram Author(s): Bhadrabahuswami, Shantisagar Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha View full book textPage 9
________________ श्रीकल्पकौमुद्यां १क्षणे ॥ ३ ॥ साधूनां न कल्पते, द्वाविंशतिजिनतीर्थे तु यं साधुमुद्दिश्य कृतं आधाकर्मादि तत्तस्यैव साधोर्न कल्पते, अन्येषां साध्वादीनां तु कल्पत एवेत्यौदेशिककल्पो द्वितीयः २ । तथा शय्यातरः- उपाश्रयदाता, तस्य पिण्डोऽशनादिचतुष्कं४ वस्त्र५ पात्र६ कम्बलो७ रजोहरणंट सूची९ पिप्पलकक्षुरिका| कर्त्तरिकादि वस्त्रादिच्छेद नोपकरणं १० नखरदनं नखहरिणी ११ कर्णशोधनं १२ चेति द्वादशविधः, स च सर्वजिनतीर्थे सर्वेषामपि साध्वादीनां न कल्पते, अनेपणीयाहारादिसम्भवोपाश्रयादिदौर्लभ्यप्रवचनलाघवादिवदुदोषसम्भवात्, अथ रात्रश्चतुरोऽपि प्रहरान् साधवो जाग्रति प्रभाते प्रतिक्रमणं चान्यत्र कुर्वन्ति तदा मूलोपाश्रयस्वामी शय्यातरो न भवति तथा तृण १ डगल२ भस्म ३ मल्लक४ पीठ५ फलक६ शय्या७ संस्तारकट लेपादिवस्तूनां सोपधिकशिष्यस्य च ग्रहणं शय्यातरस्यापि कल्पत इति शय्यातरकल्पस्तृतीयः ३ । तथा राज्ञः - चक्रवर्त्त्यादेरशनादिः अशनादिचतुष्कं४ वस्त्रं५ पात्रं६ कम्बलं७ रजोहरणं९ चेत्यष्टविधः पिण्डः प्रथमान्तिमजिनसाधूनां न कल्पते, गमनागमनसंप्रवृत्त सपरिकरयुवराज तलवरादिभिराहारस्वाध्याय कायपात्रादीनां व्याघातस्य प्रचुरतरमिष्टान्नपा| नादिलोलुपत्व निन्दनीय राजपिण्डग्रहणनिन्दादीनां च सम्भवात्, अजितादिद्वाविंशतिजिनयतीनां तु ऋजुप्राज्ञत्वेन अप्रमादित्वेन चैतग्रहणेऽपि न दोष इति राजपिण्डकल्पचतुर्थः ४ ॥ तथा कृतिकर्म-वन्दनकं, तदभ्युत्थानद्वादशावर्त्तवन्दन भेदाद् द्वेधा, तच्च सर्वतीर्थङ्करतीर्थेषु सर्वैरपि साधुभिर्यथापर्यायमन्योऽन्यं कर्त्तव्यं, साध्वीमिश्च सर्वाभिरपि अद्यदीक्षिताद्याः सर्वेऽपि साधवो वन्दनीयाः, पुरुषोत्तमत्वाद्धर्मस्येति कृतिकर्मकल्पः पञ्चमः ५ । कल्प विचार: ||| 3 ||Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 246