SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां १क्षणे ॥ ३ ॥ साधूनां न कल्पते, द्वाविंशतिजिनतीर्थे तु यं साधुमुद्दिश्य कृतं आधाकर्मादि तत्तस्यैव साधोर्न कल्पते, अन्येषां साध्वादीनां तु कल्पत एवेत्यौदेशिककल्पो द्वितीयः २ । तथा शय्यातरः- उपाश्रयदाता, तस्य पिण्डोऽशनादिचतुष्कं४ वस्त्र५ पात्र६ कम्बलो७ रजोहरणंट सूची९ पिप्पलकक्षुरिका| कर्त्तरिकादि वस्त्रादिच्छेद नोपकरणं १० नखरदनं नखहरिणी ११ कर्णशोधनं १२ चेति द्वादशविधः, स च सर्वजिनतीर्थे सर्वेषामपि साध्वादीनां न कल्पते, अनेपणीयाहारादिसम्भवोपाश्रयादिदौर्लभ्यप्रवचनलाघवादिवदुदोषसम्भवात्, अथ रात्रश्चतुरोऽपि प्रहरान् साधवो जाग्रति प्रभाते प्रतिक्रमणं चान्यत्र कुर्वन्ति तदा मूलोपाश्रयस्वामी शय्यातरो न भवति तथा तृण १ डगल२ भस्म ३ मल्लक४ पीठ५ फलक६ शय्या७ संस्तारकट लेपादिवस्तूनां सोपधिकशिष्यस्य च ग्रहणं शय्यातरस्यापि कल्पत इति शय्यातरकल्पस्तृतीयः ३ । तथा राज्ञः - चक्रवर्त्त्यादेरशनादिः अशनादिचतुष्कं४ वस्त्रं५ पात्रं६ कम्बलं७ रजोहरणं९ चेत्यष्टविधः पिण्डः प्रथमान्तिमजिनसाधूनां न कल्पते, गमनागमनसंप्रवृत्त सपरिकरयुवराज तलवरादिभिराहारस्वाध्याय कायपात्रादीनां व्याघातस्य प्रचुरतरमिष्टान्नपा| नादिलोलुपत्व निन्दनीय राजपिण्डग्रहणनिन्दादीनां च सम्भवात्, अजितादिद्वाविंशतिजिनयतीनां तु ऋजुप्राज्ञत्वेन अप्रमादित्वेन चैतग्रहणेऽपि न दोष इति राजपिण्डकल्पचतुर्थः ४ ॥ तथा कृतिकर्म-वन्दनकं, तदभ्युत्थानद्वादशावर्त्तवन्दन भेदाद् द्वेधा, तच्च सर्वतीर्थङ्करतीर्थेषु सर्वैरपि साधुभिर्यथापर्यायमन्योऽन्यं कर्त्तव्यं, साध्वीमिश्च सर्वाभिरपि अद्यदीक्षिताद्याः सर्वेऽपि साधवो वन्दनीयाः, पुरुषोत्तमत्वाद्धर्मस्येति कृतिकर्मकल्पः पञ्चमः ५ । कल्प विचार: ||| 3 ||
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy